मामकभारतम्
न लुण्ठने वा परवंचने वा
न पातकोत्कोचधनाग्रहे वा।
परन्त पापं हि पलाण्डुभक्षणे
तथाद्भुतं भारतमामकं भोः ।
धनं मृदस्तीह तथा च हेयं
करोतु दानं त्विति बोधनाय
धनं प्रभूतन्तु गुरुर्वृणोति
तथाद्भुतं भारतमामकं भोः ।
वदन्ति गौर्मातृसमास्ति लोके
ददाति यावत्पय आदृतापि
त्यजन्ति चान्ते मरणाय हन्त !
तथाद्भुतं भारतमामकं भोः ।
धनेन लभ्यो यदुपाधिरिष्टो
धनेन लभ्यं पदमिष्टमस्ति
परं कथा त्यागमहत्त्वमूला
तथाद्भुतं भारतमामकं भोः ।
धनानि भूमौ पशवश्च गोष्ठे
अथो पुराणोक्तिपरा महान्तः ।
धनेनुरक्ता विलसन्ति देशे
तथाद्भुतं भारतमामकं भोः ।
कथाद्भुतेयं जननायकानां
व्रतं गृहीत्वा जनताहितार्थम् ।
भवन्ति मग्नाः स्वहिताय नित्यं
तथाद्भुतं भारतमामकं भोः ।
रटन्ति यद्विश्वगुरुत्वगानं
वदन्ति विद्याधनमुत्तमेव ।
नयन्त्ययोज्ञान्ननु सर्वक्षेत्रे
तथाद्भुतं भारतमामकं भोः ।
कुटुम्बकं यद्वसुधा वदन्ति
परं विवादः स्वजनैः कुलीनैः।
सुभाषितं नाचरितुं हि वक्तुं
तथाद्भुतं भारतमामकं भोः ।
पुराणपारायणवाचनानि
जगद्गुरूणामभितो दलानि ।
तथापि धर्माद्विमुखःसमाजः
तथाद्भुतं भारतमामकं भोः ।
यथास्ति दृष्टिर्हि तथास्ति सृष्टि
रुक्त्वा न मां धिक् प्रवदन्तु मान्याः ।
जना वदन्ति न तथाचरन्ति
तथाद्भुतं भारतमामकं भोः ।
गताः क्व दुग्धस्य विशालनद्यो
गतो न जाने क्व कुबेरकोषः ।
गताःक्व लोकाय समर्पणोत्काः
तथाद्भुतं भारतमामकं भोः ।
पुरोहिताःसन्तु पुरो हिताय
महाजना धर्मपरायणाश्च ।
जनाःप्रबुद्धा जननायकाश्व
तथा भवेद् भारतमामकं भोः ।
****************
सुदूरं प्रियस्य वरीवर्ति ग्रामः
बहु श्रूयते वर्तते सोSभिरामः ।
घनं काननं निर्जने वक्रवीथिर्
न सङ्गेSस्ति कोSपि न मध्ये विरामः ।
न हस्तिर्न चाश्वो न शकटं रथो वा
पदातिस्तथैकाकिना गम्यग्रामः ।
न छाया पथि प्रायशो घर्मतापः
प्रतीक्षापुटे वर्तमानो निकामः ।
धनं नैव हर्म्यं तदर्थं ह्यभीष्टं
हृदःसन्निधाने भवेत् पूर्णकामः ।
वयं प्रीतिमग्ना व्रणानत्र पादे
निधाय तृषार्ता अमन्दं व्रजामः ।
अपूर्वोSस्ति ग्रामस्ततोSधित्यकायां
निवासःप्रियस्य प्रभाभिर्ललामः ।
श्रुतं सप्तरङ्गोत्तरीयावृतोSस्ति
कदा सन्निधौ हाभिसारं भजामः ।
प्रियं चान्तरङ्गे निधाय स्मरन्तः
स्वकं विस्मरन् मोदमग्नाश्चरामः ।







