यश्शिष्यमानसतमो हरते त्वजस्रं
ज्ञानं प्रयच्छति गभीरनिगूढतत्वम्।
ईशस्थितिर्विभुरसौ भुवि मान्यमान्यस्
तस्मै दयालुगुरवे प्रणतिर्न कस्य। १
यस्मिन् वसन्ति विधिरच्युत ईशदेवो
बोधं सृजन्नुपदिशन् हरतेऽतिमान्द्यम्।
श्रद्धास्पदं गुरुवरो जगतीतलेऽत्र
तद्वक्त्रनिस्सृतगिरन्तु हृदा धरेम।२
वक्रश्शशी शिवललाटसुयोगलाभात्
सर्वप्रियस्त्रिभुवने कमनस्सदैव।
शिष्यो वराकसुजनोऽत्र गुरुप्रभावात्
धत्ते सुयोग्यपदवीं परिषत्सुमान्याम्।३
मिथ्याभिमानवशगो हि नरो विमूढः
स्वैरी विहाय गुरुबोधितवर्त्म याति।
विद्या तदीयविफला तु पदे पदे हा
मध्येसभञ्च नहि राजति सोऽत्र दम्भी ।।४
यज्जीवने गुरवरो मिलितश्च कश्चित्
तस्यैव नुस्सफलजीवनमत्र मन्ये
लौहं विभाति मणियोगविभावनातो
भास्वत्सुवर्णमयतां धरते यदेदम्।।५
यद्बोधितं गुरुवरेण निगूढतत्वं
शिष्योन्नतिर्भवतु लोकहितैषितापि ।
चास्थाधिया त्वधिगता यदि काऽपि विद्या
सैषा हि मन्यत इह प्रियदक्षिणा वै।।६
पश्यत्यहो वरगुरुर्निजशिष्यकाणां
जिज्ञासुभावमधिकं विमलाञ्च मेधाम्।
स्वार्थं विहाय मनसा मृदु बोधयन् सः
श्रद्धासमर्चितपदो भुवने महीयान् ।।७







