विद्याधिदैवतसुरम्यविलासभूमिः
येयं निसर्गसुषमाहितराजधानी।
सातङ्कवादगडिता व्यथिता त्वजस्रं
चैतत् प्रवीक्ष्य जगती किल रोदितीति।।
विश्वात्ममारकमिदं सुलभावकाशञ्
चातङ्कवादजनितं गरलाभिधानम्।
तत्तावता किल नृणान्तु विवर्जनीयं
येनाहता मनुजता परिलक्ष्यतेऽत्र।।
यात्राधिया प्रकृतिरागविमुग्धचेता
यत्रोपयाति पथिकस्सुजनस्सुखेन।
व्यापाद्यतेऽयमधुना च दुरात्मलोकैस्
त्वेतन्निशम्य हृदयं व्यथितं न कस्य।।
आः पापनिर्घृणजनास्तु कदर्थवृत्ताः
कातर्यपूर्णघटनाचरिता कथं भो।
निर्दोषयात्रिसुजनः परिपृष्टजातिः
किङ्कारणेन निहतो महदत्र दुःखम्।।
आयाहि हे भृगुपते पुनरेकवारं
सम्प्रत्यहो परशुना सह भूतलेऽत्र।
चातङ्कवादिहतका भुवि वर्धमानास्
सद्यो भवन्तु तव कोपशरव्यभूताः।।