रामनवम्याः समेभ्यः शिवाशयाः
गृहे गृहे स्वर्णमयी हि लङ्का
दशाननास्सन्ति पुरे पुरे च।
तथा च शोकाकुलजानकीयम्
पुनःसमागच्छतु राघवेन्द्र !
,,,,,,,,
निशाचराणां खरदूषणानाम्
अटन्ति लुण्ठन्ति भृशं दलानि ।
विश्रृङ्खला पञ्चवटी त्वदीया
पुनःसमागच्छतु राघवेन्द्र !
,,,,,,,,
प्रदूषितानि सरयूस्तटानि,
तथा च दीनानुकृतेरयोध्या ।
सभाजनाय निजजन्मभूमिं
पुनःसमागच्छतु राघवेन्द्र !
,,,,,,,
सतां हिताय खलनिग्रहाय
अपूर्वकर्तव्यसुशिक्षणाय ।
जयाय धर्मस्य च शीलवृत्तेः
पुनःसमागच्छतु राघवेन्द्र !।
,,,,,,
इतो गतोSसौ मुनिकौशिकोSपि
न वेदघोषो न च यज्ञधूमः।
जिघांसया धावति ताडकेयम्
पुनः समागच्छतु राघवेन्द्र !
,,,,,,
नृपस्य पत्युस्सुहृदःसुतस्य
सुधीरताशौर्यविसर्जनानाम् ।
ऋतस्य पाठं भुवि पाठनाय
पुनः समागच्छतु राघवेन्द्र !
,,,,,,,
प्रजासमाराधनपद्धतिस्ते
सुविस्मृता शासकमूर्तवृन्दैः।
सतः प्रतीत्यै प्रतिपत्तये च
पुनः समागच्छतु राघवेन्द्र!
,,,,,,,,
विवर्धते हा ह्यनुवर्तते च
प्रलोभनं हेममृगस्य लोके।
शुभाय सन्मार्गनिदर्शनाय
पुनः समागच्छतु राघवेन्द्र !
रामनवम्या सर्वेभ्यो मङ्गलकामनाः ।