(कथा)
अद्य प्रिया विद्यालयं न गतवती। माता अप्रच्छत्, प्रिये! किम् अद्य विद्यालये अवकाश:? अप्रसन्नमनसा प्रिया अवदत्,” नहि, मात:! अद्य अवकाश: तु नास्ति किन्तु गन्तुं मनो नासीत्, एतदर्थम्……। तर्हि पाकशालाम् आगत्य मम सहाया भवतु, तव पितु: मित्राणि अद्य आमन्त्रिता: सन्ति, अधिकं स्वादु च भोजनं निर्मेयमस्ति। मात:! प्रदत्तगृहकार्यं करणीयमस्ति, क्षम्यताम्, सम्प्रति नाहं तव सहायिका भविष्यामि, एवमुक्त्वा प्रिया स्वप्रकोष्ठं गतवती। इयं बालिका न जाने अग्रे किं करिष्यति, एवं वदन्ती माता एकाकिनी एव पाककार्ये व्यस्ताभूत्, किन्तु प्रियाया: मनसि वारं वारं गतदिवसस्य घटना आयाति स्म, जडनयना सा शय्याया: कोणे अवस्थिता अस्पष्टाक्षरै: लपन्ती तस्मिन् विजने प्रकोष्ठे शोकाकुलासीत्। सहसा माता प्रकोष्ठे आगता, प्रियां दृष्ट्वा ज्ञातवती यत् किमपि तस्या: जातम्। वात्सल्यभावेन स्वहस्तं शिरसि भ्रामयन्ती अप्रच्छत्, प्रिये! किं जातम्, विद्यालये किमपि घटितं वा, अहं तव माता, मां न वक्ष्यसि कं वक्ष्यसि?
मातु: वात्सल्यं प्राप्य प्रिया बाष्पपूर्णा मातरं दृढम् आश्लिष्टवती, यथा लता वृक्षं प्राप्य विश्वस्ता भवति तथैव प्रिया मातरमाप्य स्वमनोगतं प्रोक्तवती, मात: ! अहं निर्दोषा, तवैव दुहिता, किं तत्कर्तुं शक्नोमि वा? माता आर्द्रहृदया भवति, स्वपुत्र्या: एतादृशीं दशां वीक्ष्य सुशीला वृहतीं भाविघटनाम् आशंकितवती, शान्तमृदुस्वरेण संबोधयन्ती माता तनयादुःखेन आकुला जाता। ब्रूहि, प्रिये! । प्रिया आश्वस्ता मन्दं निःश्वस्य प्रोक्तवती, मात: ! ह्य: यदा अहं विद्यालयं गच्छन्ती आसम् तदा मार्गे एक: युवक: मम द्विचक्रिकाया: पार्श्वमागत:, सहसा स्वमुखमागतं युवकं वीक्ष्य मनो मम भयेन आक्रान्तम् अकम्पत च। मम सख्य: मत्त: दूरे निरगच्छन्, कम् आह्वयामि, विजने कोपि नादृश्यत, भीत्या कण्ठोवरुद्ध: जात:। वस्त्रेण मुखम् आच्छाद्य मां छुरिकया भीषयन् क्रुधा अवदत्, मया सह चल, त्वां राज्ञीं विधास्यामि, आवां मिलित्वा विवाहं करिष्याव:, आनन्दं विधास्याव:।
तस्य वार्तां श्रुत्वा व्याघ्रेण भीता हरिणी इव धवललोचनाहं संजाता। किंकर्तव्यविमूढा अनूत्तरा दिशोवलोकयन्ती किंचिद्धैर्यं निधाय कम्पमानाधरा अवदम्, कस्त्वम्, कुतोसि? पूर्वं तु त्वामहं न दृष्टवती। मम परिवारेण सह तव परिचयो वा? मुखम् आच्छाद्य वदसि? मया सह विवाहमपि कर्तुमिच्छसि? छुरिकां दर्शयसि। युवक: स्वक्रोधबन्धनं शिथिलं विधाय मधुरस्वरेण अवदत्,” अहम् आसिफ:, तव विद्यालयस्य समीपे एव मम गृहम्, मुखत: कृष्णवस्त्रम् उद्धाट्य छुरिकाम् अन्त: संस्थाप्य अध: अतिष्ठत्। तस्य मुखं वीक्ष्य प्रिया आश्चर्यचकिता संजाता। विद्यालयगमनकाले सा अन्यै: बालै: सह क्रीडन्तं तं पश्यति स्म। स: क्वचित् स्वव्यंगबाणै: मां ताडयति स्म। तथापि अश्रुत्वा अहं तत: निर्गच्छामि स्म। अहं स्वसखी: तद्विषयं प्रोच्य प्रधानाचार्यं तद्वृत्तान्तं वक्तुं मन: अपि कृतवती, किन्तु सख्य: तव अपयशो भविष्यति, त्वं बालिका, स: बालक:, जना: त्वामेव वक्ष्यन्ति इति उक्त्वा मां न्यवारयन्। अहं तूष्णीम् अभवम्, किन्तु मम मौनेन तस्य पापबलम् अवर्धत। एकदाहं यदा विद्यालयं गच्छामि स्म तदा आसिफ: मित्रै: साकं खेलन् बलाद् मम द्विचक्रिकाया: उपरि अपतत्। तस्य निपातघातेन अहं दूरे अपतम्। तस्य मित्राणि तालिकारवेण उच्चै: अहसन्।
तदाहं क्रोधेन तस्य कपोले चपेटं दत्तवती। मित्राणां पुरत: स्वापमानं विज्ञाय माम् अपकर्तुं मत्समीपं तु आगत: किन्तु पृष्ठत: मम सख्य: आसन्। संख्याबलं वीक्ष्य स: माम् अपकर्तुं वदन् मित्रै: सह क्वचिद् पलायित:। बहुदिनानि व्यतीतानि । आसिफ: मम दृष्टिपथं नागत:। क्षेत्रे अधुना स: तस्य मित्राणि च न आसन्। पूर्वघटनां विस्मृत्याहं स्वपरीक्षाया: सज्जतायां पूर्णमनसा संलग्ना। एकस्मिन् दिवसे समाचारपत्रे अहं पठितवती यद् आसिफ: कश्चन युवक: लवजिहादसमूहे संयुक्त: स्वमधुरवचोभि: भीत्या च युवती: भ्रामयित्वा कुत्रचित् नीत्वा हत्यां करोति स्म । सकृत् मम मन: अकम्पत किन्तु आत्मानं येन केन प्रकारेण बोधितवती, संसारे एक: एव आसिफ: नास्ति, नैव एका प्रिया इति उक्त्वा मध्ये समाचारं त्यक्त्वा गृहस्य अन्त: गतवती। परन्तु अधुना हृदये भयं पुन: न्यवसद्। तस्यां रात्रौ प्रिया शीघ्रं सुप्तवती किन्तु आसिफस्य चित्रं तस्या: पुर: समागत्य तां भीषयति स्म। नेत्राभ्यां निद्रा गता। शयने परिवर्त्य येन केन प्रकारेण रात्रि: व्यतीता। अपरेद्यु: प्रात: शीघ्रं उत्थाय प्रिया गृहस्य कार्याणि संपाद्य विद्यालयं गतवती।
विचित्र: संयोग:, यस्य विषये सा चिन्तयति स्म, सहसा स: प्रकटितोभवत्। संसारे विपत्ते: अपि कष्टकरं भवति तस्य भयम्। विपत्ति: सकृन् मारयति किन्तु भयं मनुजं क्षणे क्षणे निहन्ति। भयबाहुल्ये धैर्यमेव तन्मुक्ते: साधनम्। प्रिया धैर्यं निधाय आसिफं प्रोक्तवती,आसिफ! सहसा तव गमनस्य सूचनां यदाहं प्राप्ता, तदाहं बहु खिन्ना जाता। गृहं गत्वा तव पितरमपि अप्रच्छं किन्तु सम्यग् उत्तरं न लब्धम् । तव दृढसुन्दरदेहमवलोक्य त्वां प्रति स्नेह: तव प्रथमदर्शनेन मम हृदये समुत्पन्न:। पश्य, ईश्वरेण कथं सम्पादितम्। तव अपरिचयात् प्रथमं भीता, परम् अधुना मे मनोरथ: पूर्ण:। त्वया सह विवाह: मम सौभाग्यम्। वद, कदा करणीयम्? परन्तु मम मातापितरौ इमं विवाहं न स्वीकरिष्यत:। केवलं पलायनेनैव एतत् सिद्धं भविष्यति। आसिफ: स्वानुकूलं सर्वं वीक्ष्य स्वपूर्वकल्पितापाशे प्रियां निबद्धां दृष्ट्वा नितरां प्रसन्न:। स्मितमुखा प्रिया किंचिद् आक्षिप्य तं प्रोक्तवती, आसिफ! विवाहे धनस्य आवश्यकता भविष्यति। किं तव पार्श्वे धनं वर्तते? आसिफ:, अर्जयिष्यामि। प्रिया- किन्तु तत्कालं धनम् अपेक्षते, मम मनसि एक: उपाय:। मम गृहे प्रभूतं धनं विद्यते, येन आवयो: जीवनं सम्यग् व्यतीतं भविष्यति, तन्नीत्वा स्वगृहात्तावत् अहम् आगच्छामि, भवान् अत्रैव मां प्रतीक्षताम्।
आसिफ: प्रियाया: परिवर्तितव्यवहारे निर्भीकतां दृष्ट्वा सशंकितो जात:, मनसि अचिन्तयत् यत् क्वचित् मां मूर्खं विधाय पुन: न प्रत्यागता चेत्तर्हि ममाभियानविषये आरक्षिण: निश्चयमेव ज्ञास्यन्ति एवं चिन्तमान: स आसीदेव तदा प्रिया अवदत्, किं चिन्तयसि, आसिफ:- किमपि न, भवती तत्र यदि दृष्टा तर्हि किं करिष्यति? प्रिया – वृथा मा चिन्तय, हृदये त्वां प्रति प्रेम मह्यं बलं न दास्यति वा। तत्र गुप्तस्थलं गत्वा संगूह्य वस। अहं रात्रौ उचितसमयं ज्ञात्वा तत: निर्गत्य तव समीपे उपस्थितो भविष्यामि। आसिफ: द्विविधासमापन्न: आकाशं प्रति दृष्टवान् पुनश्च प्रियाया: मुखम्। प्रिया तस्य स्वीकृतिं प्राप्य तथानन्दम् अनुभूतवती यथा कश्चित् मेषशावक: व्याघ्रमुखात् मुक्तो भूत्वा अनुभवति। द्विचक्रिकारोहणेन समं तस्या: गतिं यथा तीव्रां कृतवती मन्ये कश्चित् सिंह: तस्या: पृष्ठे भवेत्।
सद्यः गृहं प्राप्य श्वासै: शिथिला अहं अन्त: प्रकोष्ठमाप्य अद्यावधि चिन्तिता तिष्ठामि। मात: किं करोमि? सहसा देवनाथ: प्रियाया: पिता तत्र प्रविशति, प्रिये! किं जातम्? भीता दृश्यते। सुशीला सर्वं वृत्तान्तं देवनाथम् अकथयत्। देवनाथ: शीघ्रम् आरक्षिणं चलभाषया सूचितवान्। आरक्षिण: प्रियां नीत्वा आसिफं गृहीतवन्त:।आरक्षिणां प्रमुख: सम्मानेन प्रियां दृष्ट्वा अवदत्, प्रिये! तव साहसेन शताधिकयुवतीनां प्राणरक्षा जाता। समाजात् अद्य पुन: एक: दुःशासन: पराभूत:। प्रेमस्वांगेन एते मुग्धयुवती: भ्रामयित्वा नृशंसहत्यां कुर्वन्ति। लक्षाधिका युवत्य: अस्माकं देशे प्रतिवर्षं कालकवलिता: भवन्ति। धन्या त्वं प्रिये, धन्यौ तौ पितरौ। गृहे सर्वे आगत्य प्रियायै साधुवादं ददति स्म। मातापित्रो: शिरो गर्वेण उन्नतम्। अद्य युवतीनां आदर्शभूता प्रिया समेषां कृते प्रिया आसीत्।