लघुकथा
एकस्मिन् ग्रामे एका प्रौढ़ा निवसति स्म। तस्या : कोऽपि रक्तसम्बधिन: नासीत्। विचारशीला सा उचितानुचितयो: भेदे निष्णाता, व्यवहारे प्रगल्भा, प्रकृत्या धार्मिका: चासीत्। सामाजिककार्येषु , परामर्शेषु अग्रे -अग्रे चलति। ग्रामवासिन: तां सम्मानेन ‘पितृस्वसा’ इति संज्ञया सम्बोधयन्ति। स्त्रीय: स्वपतिनां अपेक्षया तया सह आपणं गन्तुं सुकर: मन्यन्ते। तासां मनसि धारणा आसीत् यत् पितृस्वसया सह कोऽपि आपणिक:, वञ्चक: च वञ्चने समर्थ: न भविष्यति ।
पितृस्वसा भूमिहीना आसीत् । आजीविकायै एका धेनु: तया पालिता । धेनो: दुग्धं विक्रीय प्राप्तै: पणकै: गृहादिसामग्री खाद्यपदार्थानि च क्रयति। ग्रामीणा: धेनो: गोमयं उर्वरकाय स्वक्षेत्रं नयन्ति विनिमये तृणानि पराल्यादय: ददति स्म।
एकदा विथिकायां इतस्तत: परिभ्रमन् एका शिशुविडाली दुग्धरोटिकादि प्रदानेन तया सहैव निवासं आरब्धवती। स्वामिनी यदा गृहाभ्यान्तरे कार्ये संलग्ना जाता बहुधा विडाली आसंदिकायां, विश्रामकाले स्वामिन्या : क्रोड़े च उपविशति स्म । गृहात् बहि: तस्या: अग्रे -अग्रे सुरक्षाप्रहरीव चलति ।
काचिद् समयान्तराले पितृस्वसा नवजात् किंतु अध्वरे स्थापिता परित्यक्ता एकां कन्यकां प्रति दयालु : भूत्वा पालनार्थ गृहम् आनीतवती। पितृस्वसा तां कन्यकां दुहिता इव स्नेहं करोति स्म। मल-मूत्रं प्रक्षालयति, अंके निधाय गोदुग्धं पाययति, स्नापयति, सज्जीकरोति च ।
पूर्वे तस्या: गृहे तया सह केवलं विडाली एव आसीत्। सा एव पितृस्वसाया: प्रेमभाजनं भवति।
अनेन क्रमेण एकदा पितृस्वसा शीते सूर्यातपे उपविश्य तां कन्यकां दुग्धं पाययति स्म । विडाली तयो: सम्मुखं काचिदन्तराले उपविश्य ध्यानेन एतत् सर्वं पश्यति स्म। मनसि अचिन्तयत् यदि इयं बालिका न भवति तत् सम्प्रति स्वामिन्या: अंके अहमेव आसम्।
पितृस्वसया विडालिकाया: मन्तव्यं शीघ्रं पठितम्। एतस्यां मनसि दुर्भावना प्रविष्टा। गृहे अस्या: उपस्थिति: शुभावहा न इति अमन्यत्। समीपस्था एकां सम्मर्जनीं उत्थाय तस्या: उपरि क्रोधेन अक्षिपत्।
विडाली स्वं प्रति स्वामिन्या: एतादृशं क्रोधं एतत् पूर्वं कदापि न पश्यति स्म । सा गृहात् शीघ्रातिशीघ्र पलायने एव स्व कल्याणं अमन्यत्। अनधिकार चेष्टा कदापि श्रेयस्करं न भवति।