अहो समागता परम्,
प्रकम्पकारिशीतता।
रवि: पयोदमध्यग:,
तुषारपातशीलता।।
दिनं निशासमं तम:,
चतुर्दिशि प्रविस्तृतम्।
न दृश्यते परस्परम्,
मुखं पुरश्च संस्थितम्।।
प्रवाति पीडयन्वपु:,
समीरणो दिशासु च।
जलं परं हि शीतलम्,
प्रतीयते न सौख्यदम्।।
समुष्णवस्त्रधारिणो,
नरा गृहेषु भान्ति हि।
खगा: स्वनीडसंस्थिता:,
न सन्ति शब्दवाचिन:।।
न चत्वरा जनाकुला,
न भूरियानमार्गका:।
अदृश्यरूपधारिण:,
समे मिलन्ति विस्मिता:।।
ज्वलन्ति दारुभिर्गृहे,
हुताशनस्य कुण्डका:।
लसन्ति सर्वतो जना:,
सुपेयखाद्यसेवका:।।
मन:प्रियं च भोजनम्,
सुपाच्यमाश्रितं भृशम्।
बलस्य वर्धने रतम्,
समेपि भुंजतेधिकम्।।
क्वचिच्च पूरिका गृहे,
तलन्ति मातरो समा:।
अनेकरुच्यशाककै:,
सुतृप्यते हि नोदरम्।।
कथाभिभाषणं नवम्,
पितामहस्य विस्मितम्।
सुचेतसा हि कर्ण्यते,
प्रिये सुशीतमासि च ।।