प्रभाते शीत्कारं हिमकणजलैश्शीतलहरी
हृदन्तस्सन्तापं बहुविधमियं वर्द्धयति मे।
प्रिये! हेमन्तेऽस्मिन् दिनकरकरा हा शशिकरा
भवन्त्येते नित्यं रविरपि च चन्द्रायत इति।। १
जलं स्प्रष्टुं हस्त: सरति मम नायं न च मनो
विधातुं वा स्नानं कुरुत इति जानासि सदये!
क्वचिद् वायू रुष्टो विशति सदनं शैत्यबहुल:
स्मरंस्त्वां जानुभ्यां दिवसमधुनाहं भुवि नये।। २
महाकुम्भस्नानं सपदि समये संगमजले
भवेल्लोको गेहाच्चलति शनकै: शान्तमनसा।
महच्छैत्यं भीतं विपुलजनतादर्शनवशात्
प्रयागात् संयातं विरमति विदूरं जनगृहे।। ३
कपीनां को दोषो विहगकुलशावस्य किमु वा
गवां वा सिंहानां विपिनतरुशाखाश्रयवताम्।
कवीनां काव्यानां भुवि सहृदयानामनुदिनं
महद्दु:खं कुर्वद् भ्रमति गुरु शैत्यं जनरिपु:।। ४
प्रकम्पो देहे मे भवति बहुधा मारक इतो
विधातायं वक्र: सृजति जनतापं प्रतिपलम्।
वरं शय्यायां स्यात् कथमपि शुभे! कम्बलमिदं
पुराणं वा नव्यं गृहजनकरैर्निर्मितमहो!! ५
विषीदन्तो लोका: हुहुहुहुरवं हन्त शिविरे
क्वचित् काष्ठं शुष्कं ज्वलितममृतं शीतरिपुणा।
विक्षुब्धा: सेवन्ते निजसदनदेशेषु मुदिता
निधायांके वृद्धा लघुशिशुमये शीतसमये।। ६
अहो!देवेन्द्रोऽयं घनरवभरो हन्त परुष:
प्रगर्जन् हा वृष्टिं जगति कुरुते निर्दय इव।
गृहिण्य: पाकार्थं विदधति पदं नैव मधुरा
नयन्तो दृश्यन्ते विपणिपुरुषा भोजनमिमे।। ७
रुजार्तानां चिन्ता स्पृशति हृदयं वीक्ष्य कुदिनं
भिषग्वर्गो द्रव्यं हरति नितरामौषधधिया।
परं त्यक्त्वा सर्वं निजकृषिषु सक्ता: श्रमिजना:
खरेऽस्मिन् हेमन्ते महति विचरन्तीव न कथम्? ८
न कार्यं संरुद्धं क्वचिदपि मनोदेशलसिते
स्वदेशे न: प्राय: कथमपि मनोज्ञे कृतधिय:।
क्रियासिद्धौ लग्न: सरति मनुजो यो निरलस:
फलं भुङ्क्ते नान्य: स्मर वचनमाशु प्रियतमे! ९
अविश्वस्तो ध्वस्तो भवति भवबाधासु पतितो
जनो व्यस्त: शैत्यं गणयति सुखं नैव विबुध:।
भयं हित्वा गच्छे : पच सुमधुरं भोज्यमचिरं
सहायं ते कर्तुं त्वरितमरविन्दोऽस्मि ललने! १०