त्रिनदिधवलनीरे स्नातुकामाः समस्ता
हृदि हरिमुखचन्द्रं स्थाप्य सिद्धा व्रजन्ति ।
कलिमलमपहर्तुं धर्ममार्गैकगम्यो
जयति सकललोके तीर्थराजः प्रयागः।।
सुखमयपरलोकादाशु देवाः सदेहाः
भुवि विषयविरक्ता यान्ति पुण्योपकर्षाः।
प्रथितमुनियशस्का भ्राजमानेह भूमिः
जयति सकललोके तीर्थराजः प्रयागः।।
अधिकसमयकालात्साधवः सङ्गता वै
नयनसुखपदाब्जाश्शैवशाक्तादयस्ते ।
हरिहरगुणचर्चास्वादनैस्स्वस्तिमार्गो
जयति सकललोके तीर्थराजः प्रयागः।।
जगदघमभिमर्ष्टुं पावनी स्वच्छगङ्गा
हरिपदकमलान्निःस्यन्दयन्ती तरङ्गा।
कमिह न मनुजं संतारयन्ती प्रयाति
जयति सकललोके तीर्थराजः प्रयागः।।
कृतबहुविधपुण्यैश्शाश्वतं पुण्यराशिं
विमलमतिजनौघः प्राप्तये दृश्यतेऽत्र।
निखिलभवविभूतिर्दीव्यते स्वर्गभेव
जयति सकललोके तीर्थराजः प्रयागः।।
कथयति महिमानं वेदवाणी यथेयं
न हि विलसति भूमौ तीर्थरत्नं तथेदम्।
अमृतकलशबिन्दूच्छालितोत्कृष्टसारः
जयति सकललोके तीर्थराजः प्रयागः।।
विविधतरणिजालोन्मत्तगङ्गे विशाले
प्रसुखदनवलोर्जायाः प्रसारोऽभिजातः।
क्वचिदपि न हि दृष्टो दिव्यभव्योत्सवोऽयं
जयति सकललोके तीर्थराजः प्रयागः।।
जगति सकलजातिप्राणिनः पुण्यभाजो
विमलजलपवित्रस्नानपुण्याद्भवन्ति।
प्रतिधवलमुखादुद्घोष एषोऽतिरम्यः
जयति सकललोके तीर्थराजः प्रयागः।।