भिल्लैरिह लुण्ठितं वनं राजा न जानाति रे
कर्तितं समस्तकाननं राजा न जानाति रे ।
राजन्ते वञ्चकाःखला लुण्ठकाःपदे पदेधुना
सुप्तमिदं हन्त शासनं राजा न जानाति रे ।
धिक्कृता यथाप्तपूरुषा जल्पनप्रवीणनागरैः
लभ्यते शठैःसुखासनं राजा न जानाति रे ।
अन्विषन्ति मानबिन्दवःकिं प्रमाणपत्रमात्मनः
गर्वितं तथानुशासनं राजा न जानाति रे ।
काकलीकुलाकुलेधुना वायसैर्मुदा निमन्त्रितैः
दर्दुरैः कृतं प्रशासनं राजा न जानाति रे ।
राजते तृषाधरे पुरो दैन्यदर्पगर्हितं पदम्
लोकरंजनस्य नाशनं राजा न जानाति रे ।
मुष्टिका दृढा च नेत्रयो रक्तमुन्नतःशिरोधुना
कम्पते तदीयमासनं राजा न जानाति रे ।
दुर्गमे पथि प्रकल्पिते स्कन्धयोःप्रभारमावहन्
आदिनं करोति धावनं ,राजा न जानाति रे ।
वर्तमानमत्तुमीहते भूतभूतकालिकःकुतः
आहतं भविष्यसाधनं ,राजा न जानाति रे ।
हे शकुन्तले प्रयाहि रे नात्र कन्यकासुखस्थितिर्
नो तपोवनेषु पालनं राजा न जानाति रे ।
वृद्धानामाश्रमा इमे वृद्धैरिह सङ्कुलास्ततः
चित्रगतं भक्तिदर्शनं ,राजा न जानाति रे ।
आनने ह्यमूर्तभाषया हृद्यमिदं लेखनं परम्
चक्षुषा न तस्य वाचनं, राजा न जानाति रे ।
कोपि चिन्मयो बिभाति रे सर्वतःकणे कणेनिशं
वर्तते यदास्य भासनं ,राजा न जानाति रे ।
* (जीवन के पहले हिन्दी कवि सम्मेलन के बाद से अब तक कविवर श्रीकृष्ण तिवारी जी का गीत “भीलों ने लूट लिया वन राजा को खबर तक नहीं” याद रहा। उसी पंक्ति के आधार पर कुछ अलग लिखा गया। साभार तिवारी जी को ही इसे अर्पित करता हूँ।)