मातर्हिमाद्रितनये! विनयेन वन्दे
प्रात: कराञ्जलिनुतश्च सुतस्तवाद्य।
सद्य: प्रसीद भुवनेश्वरि संगृहाण
श्रद्धाभिषिक्तनवशारदपुष्पभावान्।।1।।
अज्ञानतैमिरमपास्य मनःप्रकाश्य
लास्यप्रथाप्रथितभावविलासिनीव।
हे शैलपुत्रि! जनचित्तसमागतान्तान्
शैलान् विभिद्य कुरु कोमलमेव वर्त्म।।2।।
अश्वे क्वचित् क्वचिदहो गजसौम्यपृष्ठे
नावि क्वचित् क्वचिदियं चलदोलके च।
सिंहे स्वके प्रथितवाहनके विशिष्टे
दुर्गा विभाति भुवने नवरूपमाप्त्वा।।3।।
दोलारूढायै देव्यै-
भक्तांसशक्तिसबलीकृतरम्यरम्यां
कम्यां सुवर्णशिविकामधिरुह्य देवी।
आद्ये दिनेsद्य शरदिन्दुकलाबलेव
आयाति शैलतनया भुवि रक्षणाय।।4।।
हयारूढायै देव्यै-
अम्ब! प्रचण्डमहिषासुरमर्दनार्थं
किं किं स्वरूपमवधारयसे विचित्रम्।
आरुह्य चण्डि! हयकर्मठशिष्टपृष्ठञ्
चाssयासि यासि भुवनान्महिषासनस्था।।5।।
सिंहासनाsपि कथमद्य हयासना त्वं
देवि ब्रवीहि गतिपौरुषमानदण्डे!
लोको बिभेति नवरूपमिदम्विलोक्य
प्रायोsनभीष्टयुगसंयुगदेहलीस्थः।।6।।
नौकारूढायै देव्यै-
नावाssगतासि जगदम्ब गताम्बुलोके,
शोकापहारकरणाय वितारणाय।
लोके विलोक्य सलिलं नवलं सलीलं
श्रीलं प्रणौमि पदकञ्जमहं भृशन्ते।।7।।
वारणारूढायै देव्यै-
दुर्वारदैत्यदलवारणवारणाय
जातासि देवि! शरदीह सुवारणस्था।
संसारदुःखनिचयञ्च निवार्य नूनं
न्यूनं कुरुष्व मनसः परितापमम्ब!!8।।
वामे करे कमलपुष्पधरेsनुकम्पा
शम्पानुते च ह्यपरेsपि धृतत्रिशूले।
भक्तार्तिनाशनपरायणसत्नकृपायाः
नित्यं चकास्ति वरदानपरप्रसादः।।9।।
दृष्ट्वा त्वदीयमतिमानसभावचिन्त्यं
लोकोत्तरोपकृतलोकधृतं विरूपम्।
स्वप्नेsपि भाययति नित्यमहो जनान्तन्
मातोsव शीघ्रमयि मातृपदन्निजन्त्वम्।।10।।
सृष्टावनिष्टपरिकल्पनमन्दमेधाः
भक्तास्तवैव भुवि सन्ति न सन्ति चान्ये।
लीलामयि! प्रथितविश्वकलाकुलानां
रक्ष त्वमद्य हृदयं सदयं समेषाम्।।11।।
मातर्विषण्णजगतो हितहेतुभूतां
पूतां प्रवृत्त्तिततिमद्य समञ्जय त्वम्।
शैलाधिराजतनये! विनयं श्रृणुष्व
त्रायस्व भावविनतान् स्वसुतान् समस्तान्।।12।।
भक्तिं ह्यभक्तहृदयेषु निवेशनाय,
सद्ब्रह्मचारिगुणशीलसुरक्षणाय।
प्रातर्भजामि भवदङ्घ्रिसरोजयुग्मं
मातर्विशुद्धयुगकञ्जविकाशनाय।।13।।
दिव्यानुभूतिरिव मानससंविभूति
र्मथ्नाति चित्तमिह रागपरागगानाम्।
लोकेSप्यलोकसुखसौरभलब्धुकामाश्
श्यामाकमुष्टिपचने न भृशं रमन्ते।।14।।
चन्द्रांशुशोभितविशालललाटपट्टा
भट्टारिकेव नरदेवसुपूजितेयम्।
देवी विमुक्तिवसतिर्भुवि ‘चन्द्रघण्टा’
घण्टानिनादनिहतासुरकिल्विषाणाम्।।15।।
ब्रह्माण्डभाण्डमरचि प्रथिते विलासे
पूर्वं यया स्मितितया हितहेतुदेव्या।
सेयं कृपाकुलतया कलिकालकेSस्मिन्
कूष्माण्डिकेति भुवनेSस्ति विशुद्धकीर्ति:।।16।।
स्कन्दप्रसूरसि ह्यमन्दविमुग्धदुग्धा
भावप्रभावविनता नतपुत्रहेतो:।
बद्धाञ्जलि: प्रतिपदं भजते सुतोSयं
बिम्बम्प्रदर्शय मुदा ह्यचिरं मदम्ब।।17।।
कात्यायनस्य महसा तपसा प्रसन्ना
कात्यायनी सुरुचिराभसुवर्णवर्णा।
सिंहासनस्थवरदानविधानदक्षा
रक्षाकरैरवतु वो जननी चतुर्भि:।।18।।
पर्यस्तमूर्द्धजवितानघनान्धकारे
द्रष्टुं न शक्ष्यति करं सुकरं स्वकीयम्।
भक्ता: क्व यान्तु वद देवि! सधूमदेहे
गेहे स्वभानुमपि तापयुतं कुरुस्व।।19।।
त्वङ्कालरात्रिरसि देवि! चराचराणां
शुद्धीकरोषि भवपापपिशाचदैत्यान्।
सम्प्रत्यहो सविषयाकुलचेतनानां
चित्तेषु काशय रविं नवकालरात्रौ।।20।।
हे देवि गौरि! भुवि रक्ष सदैव गौरी-
रापद्गता: प्रतिदिनं विहतास्स्वगर्भे।
मिथ्या वदन्ति न हि शास्त्रवचांसि जाने
नारीं विना जगदिदं भविता श्मशानम्।।21।।
मृत्युंगता: कृतयुगे उत रामकाले
कृष्णोदये यवनमौगलशासने वा।
ते राक्षसा: पुनरहो जनिमाप्य लोके
बेभीत वीथिषु जनान्नितरां चरन्त:।।22।।
देवि! त्वदीयपदपूजनमत्र तावत्
पूर्णं भविष्यति न यावद्भूतलेSस्मिन्।
भूत्वा करालवदनासितखङ्गरङ्गै
र्नूनं रिरङ्क्ष्यसि कलौ न हि पुष्टदुष्टान्।।23।।
निश्चप्रचं त्वमसि मङ्गलमातृमूर्ति
र्लोकप्रसिद्धिरसि वाञ्छितसिद्धिदात्रि।
मातस्तवैव पदरेणुमुपास्य सर्वेS
खर्वेण गर्वसहितेन मुदा रमन्ते।।24।।
माता समस्तभुवनस्य सुपुत्रकाणां
देवि! त्वमेव विहितासि जितेन्द्रियाणाम्।
चेतो मदीयमिह ते लसदङ्घ्रिपुष्पं
लब्धुं द्विरेफ इव कातरतां तनोति।।25।।
नित्यं दिव्यस्तवं देव्या य: पठेच्छ्रद्धयान्वित:।
तस्य हेतोर्भवेन्नूनं कृपा पीयूषवर्षिणी।।26।।