पलं प्रपीड्यते मनो विलोक्य दूरभाषके,
क्षणान्तरे सुखानुभूतिरस्ति दूरभाषके
सुखासुखं क्रमेण भाव्यतेSत्र दूरभाषके
सखे!शुभाशुभं समस्तमस्ति दूरभाषके।।१
अभीष्टदृश्यदर्शनानि सन्ति दूरभाषके,
सुदूरलभ्यवस्तुजातमानयेत् समीपके।
विदेशवर्तिना समं लपन्ति दूरभाषके,
सुखाद्यभोजनादिकं सुलभ्यमत्र यन्त्रके।।२
यशस्विता सुलभ्यते जनैश्च दूरभाषके,
चरित्रहानिरप्यहो! भवेच्च दूरभाषके
सुहृत्समागमा: भवेयुरत्र दूरभाषके।
प्रवञ्चना विधीयते तदत्र दूरभाषके।।३
कथाप्रसङ्गसङ्गता सुतुष्टताथ रुष्टता,
मुदान्विता: रुषान्विता: समस्तकथ्यभावना:।
तथान्यसूचना: भवन्ति यत्र दूरभाषके,
विवेचनं न शक्यते किमस्ति दूरभाषके।। ४
सुकर्मसंरता: सुकर्मिणश्च दूरभाषके,
कुकर्मसंरता: कुकर्मिणश्च दूरभाषके।
तपोधना: सुपुण्यशालिनोSपि दूरभाषके,
समे सहैव सङ्गता: मिलन्ति दूरभाषके।।५
विवाहमन्त्रणा च शोकसूचनापि यन्त्रके,
कुलस्य वर्धनादिकं च ज्ञाप्यते सुयन्त्रके।
रुजानिपीडितेन सूच्यते च दूरभाषके,
किमस्ति यन्न दृश्यते सखेSत्र दूरभाषके।।६
स्वयौवनं हि यौवतेन हूयतेSत्र यन्त्रके,
न शान्तिरस्ति मानसे विलोकनेन यन्त्रके।
ह्यमूल्यकालयापनं मुधास्ति दूरभाषके,
शनै: शनै: गतं सुजीवनं हि दूरभाषके।।७
दृगस्ति दूरभाषके वदन्ति दूरभाषके,
चलन्ति दूरभाषकेण दर्शिते शुभे स्थले।
सुदुष्करं भवेद् यदीह चिन्तने विचारणे,
गवेषयन्ति तज्जना: स्वकीयदूरभाषके।।८
दिवानिशं निमज्जिता: जनाश्च दूरभाषके,
करे निधाय लोकयन्ति किन्नु दूरभाषके?।
बुभुक्षितेSपि भोजनाय यान्ति दूरभाषके,
नराश्च खेलने रता: भवन्ति दूरभाषके।।९
युवानुरागिणो भवन्ति तेSत्र दूरभाषके,
समन्विषन्ति रागिणीं सदैव दूरभाषके।
मिथस्तया समं लपन्ति भूरि दूरभाषके,
महाप्रभावके रति: कथं न दूरभाषके।।१०
क्वचित् किमत्र जायते यथायथं प्रदर्श्यते,
सुदुष्करञ्च वेद्यते द्रुतं हि दूरभाषके।।
सुदुर्लभोSपि लभ्यते सखेSत्र दूरभाषके,
ह्यसीमदूरता विनश्यते च दूरभाषके।।११
महुर्मुहु: गणेषणेSपि यद् बहिर्न लभ्यते,
क्षणेन तत् सुलभ्यते सदात्र दूरभाषके।
पतन्ति रागबन्धने जनाश्च दूरभाषके,
समर्पणं विधीयते समै: सुदूरभाषके।।१२
विपत्क्षणे सहानुभूतिरस्ति दूरभाषके,
सुखे पलेSस्ति नन्दनं भृशं हि दूरभाषके।
स्पृहातरङ्गघोषणास्ति दिव्यदूरभाषके,
मनो व्यथायते सखे! गते च दूरभाषके।।१३
विचित्रचित्रणं क्वचित् प्रदर्शयन्ति यन्त्रके,
विहाय पुस्तकं जना: पठन्ति दूरभाषके।
विनिन्दितं प्रशंसितं समस्तमस्ति यन्त्रके,
पठेद् भवांश्च काव्यमेतदत्र दूरभाषके।।१४
स्वग्रामजीवनस्य पौरजीवनस्य वृत्तदं,
जगत्तलस्य सूचनाप्रदं हि दूरभाषकम्।
पुर: पराजितं सुयन्त्रकस्य वृत्तपत्रकम्,
जने जने जवेन वर्धतेSत्र दूरभाषकम्।।१५
सुदिव्यवस्त्रवेष्टिताः दिगम्बराश्च तेSवशा:,
स्त्रियो नराश्च नर्तनानि दर्शयन्ति यन्त्रके।
बसेSथ रेलयानके पथे गते च चत्वरे,
जना: विलोकयन्ति तानि चित्रकाणि यन्त्रके।।१६
गृहे भवेत् पति: परन्तु सुन्दरी तु यन्त्रके,
कुमारिकेव दृश्यते समं नरेण भाषणे।
स्त्रिय: यथार्थमत्र गोपयन्ति दूरभाषके,
गृहे पतिव्रतापि सा चरेन्नरांश्च यन्त्रके।।१७
नराश्च छद्मतां तथाSSचरन्ति दूरभाषके,
यथार्थगोपनेन ते स्त्रियस्तुदन्ति यन्त्रके।
अवैधता प्रवर्धते दिने दिनेSत्र यन्त्रके,
करे करे प्रवञ्चनापणानि सन्ति यन्त्रके।।१८
दरिद्रता समृद्धता प्रकाश्यतेSत्र यन्त्रके,
क्वचिद्भ्रमन्ति केSधुना प्रसूचयन्ति ते समे।
क्व भुज्यते क्व गम्यते जनैस्तदत्र सूच्यते।
अतीव विस्मयोSस्ति मे निरार्थकेSत्र यन्त्रके।।१९
अनेकरूपधारका: नरा: भवन्ति यन्त्रके,
दिवानिशं प्रवञ्चका: प्रवञ्चयन्ति यन्त्रके।
सदैव पश्यतोहरा: वसन्ति दूरभाषके,
न साहचर्यमस्ति भासनं सखेSस्ति यन्त्रके।।२०