हे बदरीश!
जोशीमठवासिनां
संकटं हर
केदारनाथ!
पश्य संकटापन्नं
जोशीमठं तत्
अलकनन्दे!
नियन्त्रितानि कुरु
जलस्रोतांसि
हे भागीरथि!
जनकृतं विस्मृत्य
मंगलं कुरु
प्रकृतिदेवि!
त्वमेव बलवती
वयमबला:
हे स्थानदेव
पाहि पाहि विपन्नं
शरणागतम्
हे वनदेवि!
क्षमस्व सर्वलोकम्
अबोधमेतम्
लुब्धमानव!
न खन गिरिवरान्
प्रकृतिं रक्ष