1.
खेलति गेहे बालगणेश:
माता गौरी पिता महेश:।
पितु: त्रिशूलं हस्ते नीत्वा
लघु लघु धावति बालगणेश:।।
रक्तं वसनं धृत्वा नृत्यति
मधुरमोदकं नित्यं खादति।
मूषकपृष्ठे स्थित्वा धावति
विहसति मधुरं बालगणेश:।।
नमति मातरं पितरं नित्यं
नर्तयतीह मयूरं नित्यम्।
पूज्यो भवति सकलसंसारे
विघ्नहरो$यं बालगणेश:।।
लम्बोदरो महागजराज:
सार्धं खेलति बालसमाज:।
मम गेहे$पि समायास्यति स:
मात्रा पित्रा बालगणेश:।।
**************
2.
चद्र मातुल चन्द्रमातुल! इत एव त्वां प्रणमामि
समागतं त्वां गृहे स्वकीये नैव कदापि हि पश्यामि।।
नीले गगने विहरसि रात्रौ दिवसे भवसि निलीनस्त्वं
क्रमश: पुष्टो भवसि कथं वा क्रमशो भवसि क्षीणस्त्वम्।।
प्रताडित: किं त्वमपि जनन्या विद्यालयं न यासि हि किं
क्रीडसि नित्यं मित्रैस्सार्धं गृहकार्यं न करोसि हि किम्।।
माता वदति सुभद्रो$सि त्वं सदा करोसि हि लोकहितं
तापं हरसि सुधामपि वर्षसि दिवसे लुप्तो भवसि कथम्।।
कदाचिदायाहि त्वं गेहं नव भोज्यान्नं दास्यामि
स्कन्धे स्थित्वा तवैव मेलापकं तदैव हि यास्यामि।।
मित्राणामायाति मातुलो नीत्वा मधु मधुराणि
वस्त्रं नवं नवं क्रीडनकं वितरति च द्रव्याणि।।
परं कदाचिन्नायासि त्वं मातुल कथं गृहम्मे।
माता वदति विना त्वां शून्यं दिव्यं चापि गृहम्मे।।