गीतम्
प्रस्तौमि पद्यं हि सखानुरोधः
शुद्धं न वा पद्यमिदं न जाने ।
शिक्षा सदभ्यासमुखेन लब्धा
करोमि योगः खलु काव्यहेतुः ।
१. संस्कृतभाषाया:महत्वम्
देशे विदेशे जनमानसे च
दिशासु चेयं वितनोति मेधाम् ।
नेयं सुमाता न च शारदेयं
वाणीस्वरूपा सुरभारतीयम् ।।1।।
मन्त्रस्वरूपा सुरसेवितेयम्
लोके प्रसिद्धा खलुदेवभाषा ।
जनाः सुबद्धाः निखिले हि विश्वे
सूत्रं तथास्याः परमप्रकृष्टम् ।।2।।
लोके च वेदे सुविराजितेयं
नैकेषु शास्त्रेषु सुजीवितेयम्
आसीदियं प्रागिह मातृभाषा
समादृतेयं जनमानसे च ।। 3।।
धर्मस्य चिन्ता न कदापि भाति
विश्वस्य कल्याणमभीप्सितं हि
समानरूपा मनुजा भवन्ति
भद्राणि पश्यन्तु सदा हि लोकाः ।। 4।।
ज्ञानं हि सर्वं निरपेक्षभावं
सुनीतियुक्तं विदधाति तर्कं
संस्कारशीला रसभावयुक्ताः
पठन्ति सर्वे जडतां विहाय ।।5।।
********************************
२. बाल्यो हि कालो ललितो विभाति
न कापि चिन्ता मधुरस्स कालः
ग्रामे हि वासः सरलः सुरम्यः
पाठो न लेखो न भयं हि तस्य
न भाररूपं पठनं हि भाति ।। 1।।
गुरुर्हि माता च पिता गुरुर्वै
ज्ञानस्य लाभः सहसा हि जातः
क्रीडा च बाल्ये सततं करोति
बाल्यो हि कालो विमलो विभाति।। 2।।
निजः परो वेति न जातिबन्धः
आनन्ददाने निरताः भवन्ति ।
सौहार्दभावः सुलभः सदैव
बाल्यो हि कालो विमलं विभाति ।। 3।।
दृष्टं न शाठ्यं न च वैमनस्यं
द्वेषो न दृष्टः खलु वालकेषु
सदा हि बालाः गुणशीलयुक्ताः
बाल्यो हि कालो सरलः सुरम्यः ।।4।।
दोषेण युक्तो न कदापि बालः
सर्वे हि बालं मनुते च देवम्
बालो हि शुद्धो मनसा च सौम्यः
सर्वत्र वाचा सुखमातनोति ।।5 ।।
कस्यापि पार्श्वे न च दूरभाषः
यानं न यन्त्रं खलु सौख्यवस्तु
तथापि चिन्ताविरतो हि बालः
बाल्यो हि कालो ललितो विभाति ।।6।।
माधुर्ययुक्तः सुविरामकालः
क्रीडानुरक्ताः दिवसे च रात्रौ
दुग्धञ्च पीत्वा परितो हि गेहं
विनैव कार्यं भ्रमणे निमग्नाः ।।7।।
दृष्ट्वेति स्वप्नं हसिताननो वै
मातुः सकासं ससुखं प्रसुप्तः
भयं कदाचिन्मुखमण्डलेपि
हासो विलासः सहसा मुखे च।।8।।
आम्रादिनानाफलभक्षणाय
गतो हि बालः वनसन्निधौ च
मध्याह्नकाले तटिनीतटे हि
स्नात्वा हि बालो गृहमागतो वै।।9।।
आरुह्य बाल्ये वृषभस्य यानं
गतो हि पित्रा सह कृष्यभूमिं
दिनान्तभागे गृहमागतो वै
सन्ध्या हि वेला मधुरा विभाति।।10।।
वस्त्राग्रभागं धृतवान् हि मातुः
सदा हि गेहे भ्रमणं करोति
रात्रौ तु भोगः खलु मातुरङ्के
पितुश्च पार्श्वे शयनं करोति ।।11।।
– प्रो. मदन मोहन झा