ग़ज़ल
1.
क्षेत्रे जडा तिष्ठति चञ्चा
सजीवान् भाययति चञ्चा
चित्रित नेत्राभ्यामप्यहो!
सर्वत्रैव पश्यति चञ्चा
पदमेकमपि न गत्वा ननु
चतुर्दिशं हि भ्रमति चञ्चा
कर्णौ विनापि नवयोगी
विहगरवं शृणोति चञ्चा
निष्कामकर्मभावेन
स्वकार्याणि करोति चञ्चा
*****************
2.
दुःखदः स सुखीयति
अन्धवृत्तः स चन्द्रीयति
सदा नरकं विरचय्य
वासाय स नाकीयति
कन्याभ्रूणं हत्वा
अहो! स पुत्रीयति
मार्गे तरुनखान् कीर्त्वा
सुखाय स मालीयति
पितरौ ग्रामे त्यक्त्वा
खलु स महानगरीयति
अवखातं पातयित्वा
ननु सः प्रासादीयति
वातानुकूलितकक्षे
स दीर्घजीवनीयति
– डाॅ. कौशल तिवारी
Facebook Notice for EU!
You need to login to view and post FB Comments!