जयतु संस्कृतम्
होलिका रे सखे!
होलिका रे सखे! होलिका रे सखे!
मन्यते भारते होलिका रे सखे!
सुरक्ताः सुपीताः सुनीला हि बालाः
सुवाद्यैः सुगीतैः सुनृत्यैः प्रमत्ताः।
सुभोज्यैः सुपेयैः सुभङ्गैः सुतृप्ताः
सकामाःसवामाःसहाला हि जाताः।।1।।
होलिका रे सखे! होलिका रे सखे!
मन्यते भारते होलिका रे सखे!
गायिका नायिका गायको नायको
लासिका राधिका लासको मोहनः।
बालकाः साधका गोपिकाऽऽराधिका
नैकरागाम्बुधौ मज्जिता हर्षिताः ।।2।
होलिका रे सखे! होलिका रे सखे!
मन्यते भारते होलिका रे सखे!
भारते भूषणो भारतीभूषणो
राधिकाऽऽराधको गोपिकामोहनः।
को मनोहारकः को मनोहारकः
कोपि गोपालकः कोपि गोपालकः।।3।।
होलिका रे सखे! होलिका रे सखे!
मन्यते भारते होलिका रे सख!
– प्रो.ताराशंकर शर्मा पाण्डेय