जयतु संस्कृतम्
होलाष्टकम्
आदिकालाच्च या विद्यते सौख्यदा
मोददा स्नेहदा नैकवर्णान्विता।
उत्सवस्नेहपूर्णे सदा भारते
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।1।।
पूर्णिमायां तिथौ फाल्गुने पावने
माससर्वोत्तमे भूतले या जनै:।
मान्यते बालवृद्धैस्समै:युवकै:
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।2।।
नैकवर्णान्वितं सुन्दराकर्षकं
वस्त्रचित्रं विचित्रञ्च संधार्य भो।
प्रक्षिपन्तीह बाला:जलं शीतलं
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।3।।
ढक्कया झल्लरीभिस्सदा सर्वदा
गीतनृत्ये च रम्ये नराःभो मुदा।
कुर्वते पर्यटन्त:गृहेषु हृदा
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।4।।
गेहवातायनातुङ्गछद्याश्च वै
ग्रामनार्यस्सुबालाः मनो मोहकम् ।
बालकानाञ्च पश्यन्ति नृत्यन्नवं
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।5।।
द्वेषकालुष्यदम्भं विहायाद्य भो
वाग्मनोहारिभि:भूषयन्ति द्विष:।
गंडकेsबीररम्यं विलम्पन्ति वै
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।6।।
शष्कुलिक्षीरशाकानि रम्याणि वै
यानि निर्मान्ति प्रेम्णा मुदा मातर:।
भक्षयन्तीह बालाश्च स्नेहेन वै
होलिकोत्कर्षदा हर्षदा स्याच्च व:।।7।।
द्वेषकालुष्यहीनं भवेज्जीवनं
शान्तिकांतिश्च युक्तं भवेज्जीवनं।
नैकवर्णान्वितं स्याच्च ते जीवनं
होलिका बोधिका सर्वलोकस्य वै।।8।।
– डॉ. आशुतोष द्विवेदी