जयतु संस्कृतम्
सरस्वतीवन्दनम्।
जानामि मातरनिशं कृपयारविन्दो
यद्यल्लिखामि रुचिरं भवतीव लोके।
हन्त क्वचित् स्खलति मे चरणः कदाचिद्
धृत्वाङ्गुलिं नय सुतं कविकाननेsस्मिन्।।
नैवाभिराजसदृशः कविमानदोsहं
नैवास्मि शुक्लसदृशः सुकविश्श्रुतोsहम्।।
नाहं त्रिपाठिसदृशः प्रणवानुरूपो
धृत्वाङ्गुलिं नय सुतं विदुषां वनेsस्मिन्।।2
बालोsस्मि विंशतियुगं वयसा प्रविष्टो
धृष्टो दधामि चरणौ बहु कम्पमानः।
सिन्धौ प्रगर्जति कवीन्द्ररसोर्मिपूर्णे
धृत्वाङ्गुलिं नय सुतं बडवानलेsस्मिन्।। 3
सत्यं ब्रवीषि चलनीयमितो मयैव
नैवागमिष्यसि सदा ननु साकमेवम्।
यावच्छतं भवति मे वयसां तु तावद्
धृत्वाङ्गुलिं नय सुतं सुहृदां वनेsस्मिन्। 4
अग्रे ततस्तव कृपा नवजन्मनि स्यात्
सम्प्रार्थये प्रियसुतोsचतुरोsरविन्दः।
तत्रापि काव्यरचना प्रसरेन्मदीया
धृत्वाङ्गुलिं नय सुतं महतां वनेsस्मिन्।। 5
– डॉ. अरविन्द तिवारी