
सीव्यति कालः
वयसश्चित्रपटम्
मन्दममन्दम्।
***********
शिक्ष्यतेSधुना
विहस्य मारणस्य
नवपद्धतिः।
***********
निशीथे कश्चित्
स्वेदसिक्तवदनः
मेघं शपते।
***********
चातकः व्रूते
प्रेम ...

नायोध्यास्ति सुरक्षिता भुवि हरे! श्रीगोकुलं हे प्रभो!
नैवेयं मथुरा न चास्ति भगवन्! मोदावहा काशिका।
एषा श्रीयमुनापि हन्त मनुजै: सन्दूषिताहर्निशं
हे योगेश्वर! कृष्ण! दिव्यवसुधां हृच्चौर! रक्षेश्व...

रुचितचारुचन्दोच्चयप्रभा
चटुलनन्दजप्राणवल्लभा।
त्रिभुवनेश्वरी लासवल्लरी
जयति राधिका प्रेमसाधिका ।।1।।
नवलनीलनालीकशाटिका
कमनकृष्णभृङ्गेष्टवाटिका।
सुरसपायिका रासनायिका
जयति राधिका प्रेमसाधिका...

अश्रुभिराचमनं करणीयं भवति
कथं मित्र !
जीवनमभिशप्तं वरणीयं भवति
कथं मित्र !
गतो वसन्तः पुनर्नागतः
श्रीहीनं सदनम्,
अश्रुपूरिते नयने तरले
हृदि करुणाकलनम्
भग्नस्वप्नकुलं चयनीयं भवति
कथं मित्...

पीडालङ्कृतपटकथामश्रुबिन्दुनासा द्य।
नेत्र तरले मीलिते कान्तकलं प्रतिपाद्य।
पीडा की नवपटकथा आँसू बनकर बैन।
...

मन्दं चिरं जगति वर्षति मेघमाला
नीडोद्भवो नभसि कूजति चारुभाषः।
नीलोत्पलानि विकसन्ति सरोवरेषु
सच्छ्रावणे मनसि भाति नवोऽभिलाषः।।
वेदप्रधानमधुरध्वनिभावप्रीत्या
मन्दारपुष्पचयमालिकया विशिष्य।
प्र...

राष्ट्राष्टकम्
षड्यन्त्रं न विदन्ति हन्त मुखरा नित्यं विवादे रता:
पङ्कं बन्धुषु संक्षिपन्ति सहसा मन्ये सहासं श्रुता:।
आर्योऽहं न वदन्तु हे सहृदया आर्या वयं भारता
व्यर्थं वाचि...

पुण्यं सुखं प्रसूते पापं च कष्टजालम्
निन्दन्ति सर्वलोकाः तं किन्त्वदोषकालम्॥१
नॄणां मुखात् प्रवाहो मधुरामृतस्य किन्तु
हृदये निगूढमास्ते हा कालकूटजालम्॥२
पठनक्षमं मनोज्ञं ज्ञात्वाऽपि शैशवास्...

तरुणा विपिनं विपिनेन तरुस्
तरुणा विपिनेन विभाति धरा।
सरिता सलिलं सलिलेन सरित्
सरिता सलिलेन विभाति नग:।।
चुलुकेन कुवं च कुवैश्चुलुकश्
चुलुकेन कुवेन विभाति सर:।
मसिना कलम: कलमेन मसि:
मसिना क...

आदिनमहो रिक्तताभारः
आदिनमहो व्यर्थतासारः
आदिनमहो मृषाव्यापारः
आदिनमहो वृथा व्यवहारः
किं वक्तव्यं-किं वक्तव्यम् ,
गतोSभ्यर्थनाया आधारः
हतःस्पन्दनोद्गतःप्रसारः
दुष्टःशब्दस्तथा विचारः
अनर्थ...