जयतु संस्कृतम्
संस्कृत बाल-गीतम्
वर्षा-गीतम्
वर्षति मेघ: हर्षति कृषक:
नृत्यति केकी रम्य- वने।
चपला चपलति भवति गर्जनम्
कम्पति हृदयं क्षणे-क्षणे।।
वृक्षस्योपरि वर्षा-तोयं
‘टप्’ -‘टप्’ इति करोति शब्दम्
नवलकान्तया राजन्ति वृक्षा:
विलसति सुषमा पुरे-पुरे।
वीथौ-वीथौ जलमाधिक्यं
बालानां मनसि आनन्दम्
तारयन्ति ते सलिले नौका
पत्रं -नौका श्वेतानौका
सज्जति नौका गृहे-गृहे।।
******************************
सरस्वती वंदना
विद्या सलिले विवेकहंसे
हंसे सीदति सरस्वती।
मालाध्यानप्रतीकं हस्ते
पुस्तकज्ञानं दर्शयति।।
मानसताले संचरणं ते
भवतु सर्वदा याचाम:
विद्यालोभी वयं मिलित्वा
शिक्षाशालां गच्छाम:।।
श्वेतशाटिका श्वेतं कमलं
श्वेत:हंस: शुभ्रमन:।
वीणावादिनि ददातु विद्यां
नमन्ति चरणौ शिष्यगण:।।
– मोती प्रसाद साहू