कविता
संस्कृत त्रिपदिका
(1)
कवितैव चिनोति सदैव,
कविं स्वेच्छया,
कविर्न कदापि।।
(2)
कवितया,
लिखितोऽहं,
सम्पूर्णरूपेण।।
(3)
यदा यदा पश्यति,
कविता मां,
स्वच्छीभवति रूपं मे।।
(4)
कविता स्पृशति यदा,
कवेर्हृदयं,
पवित्रीभवति सः।।
(5)
कविता रचयति,
कविं सर्वदा,
स्वान्तःसुखाय।।
– डाॅ. कौशल तिवारी