जयतु संस्कृतम्
श्रीकृष्णार्पणमस्तु
चाणूरकंशरिपुनाशकभक्तपूज्याद्
गोपाङ्गनाहृदयचौरकलाप्रवीणात्।
रासेश्वराद्भगवतो जितकामदेवात्
कृष्णात्परं किमपि तत्त्वमहं न जाने।।01।।
संसारसृष्टिलयरक्षणमूलबीजाद्
भक्तात्मकष्टसुनिवारणकर्मलीनात्।
विश्वस्य सम्भरणपोषणकार्यलग्नात्
कृष्णात्परं किमपि तत्त्वमहं न जाने।।02।।
नित्यं विरिञ्चिशिवशक्तिसमैस्सुसेव्याद्
आवृद्धबालवनितायुवकादिपूज्यात्।
वेदैस्सुशास्त्रसकलैर्नितरां सुवाच्यात्
कृष्णात्परं किमपि तत्त्वमहं न जाने।।03।।
दिव्यान्मयूरमुकुटान्मुरलीधराद्वै
गीतामृतेन च जगच्छिवसाधकाद्वै।
धेनुप्रसेवकवरात्प्रभुवासुदेवात्
कृष्णात्परं किमपि तत्त्वमहं न जाने।।04।।
लीलाधरेश्वरविभो: फणनृत्यदक्षात्
पूर्णावतारकमलेश्वरदेवदेवात्।
श्रीपद्मनाभभुजगस्थसुमेघवर्णात्
कृष्णात्परं किमपि तत्त्वमहं न जाने।।05।।
पञ्चकं वासुदेवस्य य: पठेच्छ्रद्धया हृदा
तस्मिन्भक्ते प्रभोर्दिव्या कृपावश्यं भविष्यति।।
【डॉ.शशिकान्ततिवारी”शशिधर”】
– डॉ. शशिकान्त शास्त्री