जयतु संस्कृतम्
शीतलहरी
खं वर्षतीव विततं विपुलं तुषारं
मन्ये प्रचण्डनवशीतभयाद्विभीत:।
सूर्यस्य घर्मनिचयो न जहाति तापं
दृश्यास्ति शीतलहरी बहु कम्पयन्ती।। 1
शीतासुरो जगति भापयते समस्तं
विप्रोऽपि गाङ्गसलिले विशतीव कश्चित्।
मन्त्राभिषेकमुदितो हुहुरावमग्नो
हृन्मन्दिरे प्रकुरुते भगवत्समर्चाम्।। 2
हा वानरा द्रुमनिकुञ्जलतासु दूना:
शीतासुरेण कुपिता: शिशुभिस्समेता:।
पश्यन्ति भास्करमहो मृततापमेते
चन्द्रोदयो भवति किं दिवसेऽपि मत्वा।। 3
एते स्वनीडसुखिनो विहगा विपन्ना:
श्रुत्वा च शावकमनोहरचुङ्कृतिं ते।
चुञ्चुं प्रियं कलरवं किमु शीतकाले
कुर्वन्ति नैव भगवन् न डयन्त एव।। 4
श्वश्रूप्रिया नववधू: प्रियबाहुपाशे
शेते सुखं न कुरुते गृहकार्यमेषा।
चायं प्रदेहि सदने रटतीव वृद्धा
तां तं च निन्दति मुदा सुवधू: प्रसुप्ता।। 5
तूले जपन् हरिरहौ श्वशुर: स्वभार्यां
ब्रूते प्रिये कथमये नदसीव गेहे।
शैत्ये प्रशान्तभुवने मम चायपानं
पश्चाद् भविष्यति हरिं जप सुप्रभाते।। 6
श्रीमन्महेशसुकवे: पठ सुप्रभात-
पद्यं नवं सुललितं प्रियफेसबूके।
पेयं स्वचायसदृशं सुलभं प्रतप्तं
कालो निजं व्यपगतं स्मर स्मारयामि।। 7
पुत्रो युवापि कवितारचनेऽस्ति लीन:
शीघ्रं प्रदास्यति मदर्थमये य चायम्।
शेतां वधूर्गृहसमस्तसुकृत्यकर्त्री
श्रान्ता न शीतलहरीं किमु पश्यसीव।। 8
शीताष्टकमिदं हृद्यं सर्वगेहकथां वदत्।
हरतां माननीयानां कवीनां मानसं ध्रुवम् ।।
**********************************************
न लोके वर्तते कश्चित्!!
सखासौ मामको हृत्स्थो न लोके वर्तते कश्चित्।
अहं याचे कृपासिन्धो! न लोके वर्तते कश्चित्।। 1
मुखान्नो निस्सरेन्निन्दा प्रशंसा निस्सरेत् काचित्।
नवो मान्य: प्रभो कामो न लोके वर्तते कश्चित् ! 2
न याचेऽहं जनं कञ्चिज्जनं मां याचतां कामम्।
वरो मे दीयतां कल्प्यो न लोके वर्तते कश्चित्।। 3
मया संवीक्षित: सर्वो दयासिन्धो! प्रियो दृव्य:।
जगद्न्धो! रव: श्राव्यो! न लोके वर्तते कश्चित्। !4
स्वमानार्थं जनो मत्तो निहन्ति प्राणदं बन्धुम्।
कवीन्द्रो मानदो यातो न लोके वर्तते कश्चित् ! 5
समक्षं प्रेक्षते कीदृक्परोक्षे प्रेक्षते कीदृक्।
द्विनेत्रो मे सखा वन्द्यो न लोके वर्तते कश्चित्।। 6
जनानां क्षीरभोज्येऽस्मिन् विषं संलक्ष्यते दूरात्।
कवि: क्षुब्धोऽरविन्दोऽयं न लोके वर्तते कश्चित्।। 7
– डॉ. अरविन्द तिवारी