रे वसन्त!
कान्ताया: प्रथमं सुमेलनमिदं नैवास्त्यहो हा! परं
नूनम्मे प्रतिभाति हा! प्रथमतस्तन्मेलनं जायते।
भुक्त्वापीह बुभुक्षितोsहमधुना पित्वा पिपासुस्तथा
जाने नैव सखेsधुना कृतमहो किं रे वसन्त! त्वया।।05।।
कान्ताक्रोडरतस्तथापि हृदयं कामेन संव्याकुलं
व्यापारातुरतां गतं तदधरं पातुं हृदुत्कण्ठते।
तस्याश्श्वासजवायुना वपुरिदं रोमाञ्चितं जायते
जाने नैव सखेsधुना कृतमहो किं रे वसन्त! त्वया!।।03।।
सन्तोषो नहि जायते मनसि मे कामेन वा कान्तया
नैवं भागवतादिशास्त्रनिकरैर्गीतोपदेशेन वा।
वह्नौ हा!घृतपातनेन सदृशं कामो हि संवर्धते
जाने नैव सखेsधुना कृतमिदं किं रे वसन्त!त्वया।।02।।
आम्रेषु प्रियमञ्जरी हरति सच्चेतो बलान्मामकं
पुष्पाणीह सुगन्धितानि हृदयं सम्मोहयन्ति ध्रुवम्।
दृष्ट्वा खे खलु खेचरान्मन इदं कामान्वितञ्जायते
जाने नैव सखेsधुना कृतमहो किं रे वसन्त! त्वया।।04।।
हस्तौ स्पृष्टुमहो गतौ विचलितां द्रष्टुञ्च नेत्रे गते
श्रोतुं श्रोत्रमहो च यातमिह तां घ्रातुं तथा नासिका।
वक्तुं वाग्धि मनो मुहुर्मुहुरहो चालिङ्गितुं चोद्यतं
जाने नैव सखेsधुना कृतमिदं किं रे वसन्त! त्वया।।01।।
– डॉ. शशिकान्त शास्त्री
Facebook Notice for EU!
You need to login to view and post FB Comments!