रक्ष भुवनम्
हे नाथ रक्ष भुवनं भवभासुरेभ्यो
दुर्दान्तदैत्यचरितेन हि जीवितेभ्य:।
सन्मानसाब्जदलनार्थनिशाकरेभ्यो
श्रीखण्डशैलवनभक्षकपन्नगेभ्य:।। 1
काव्यालबालजलशोषककुम्भजेभ्यो
विज्ञानवीचिगतिरोधनतत्परेभ्य:।
सर्वं विहाय निजजीवनरक्षकेभ्यो
देवासुराध्वरहविष्यसुरक्षकेभ्य: ।।2
कन्दर्पवाणवशगाननतोषकेभ्यो
गौरीशजीवनवनांगणदाहकेभ्य:।
लंकाकलंककुलकैरवकुड्मलेभ्यो
रामाननार्चनमधुब्रतपुंगवेभ्य:।। 3
पद्माननद्युतिविघातककुञ्जरेभ्यो
दिव्याम्बराभरणभूषितकुक्कुरेभ् य:।
धर्मान्धकालयवनांगनकुक्कुटेभ्यो
शुष्कार्तनादनटनायकसेवकेभ्य:।।4
व्यासासनोच्चशिखरस्थितमर्कटेभ् यो
दिव्यार्थदर्शमिषात्खलपूजकेभ्य: ।
मिथ्यार्थलाभविषयार्पितजीवनेभ् यो
हेमाम्बराहरणलग्नदिगम्बरेभ्य:।5
******************
रमणीयदृश्यम्
भानुं विलोक्य हसति स्म जले मृणाली
तस्या: स्मितौ हसति कृष्णतनुर्द्विरेफ:।
तद्गुञ्जनेन हसति स्म हि पद्मपद्मा
हा हा कुतो व्यपगतं रमणीयदृश्यम्।।1
तीरे तरंगघटनस्य मिषात् कदाचित्
कल्लोलिनीकरतलध्वननं निशान्ते।
दिव्योदयं निगदति स्म दिनेश्वरस्य
हा हा कुतो व्यपगतं रमणीयदृश्यम्।।2
नीडं विहाय पतगा: कलकूजनेन
निद्रापहारसमयं ननु बोधयन्त:।
लोकांगनेषु विहरन्ति सदा प्रसन्ना
हा हा कुतो व्यपगतं रमणीयदृश्यम्।।3
भूमिं प्रणम्य कुलदेवगणं स्मरन्त:
शय्यां त्यजन्ति शिशवो युवकाश्च वृद्धा:।
गोदोहनेन भवति स्म शुभप्रभातं
हा हा कुतो व्यपगतं रमणीयदृश्यम्।।4
वासोयुगेन धनिनो गृहरक्षणार्थं
व्याघ्र: स्वयं हि भवति स्म यदा नियुक्त:।
शाखामृगो$पि विटपानथ सिञ्चति स्म
हा हा कुतो व्यपगतं रमणीयदृश्यम्।।5
– डॉ. निरंजन मिश्र