जयतु संस्कृतम्
मातुल!
कियान् सुन्दरोऽसि त्वं मातुल!
मम तु प्रियोऽसि त्वं मातुल!
आरोहणं ते पृष्ठं मे रोचते
दीर्घकञ्चुकं ते बहु शोभते,
सङ्गमेन ते न कष्टं बाधते
मधुरस्मितेन वदनं काशते,
त्वां सदा स्मरामि मातुल!
कियान् सुन्दरोऽसि………………।।
बाल्ये त्वमपि चपलश्श्रुतं मया
तथापि पठने श्रेष्ठश्श्रुतं मया,
मातरि तव प्रतिरूपं दृष्टं मया
प्रतिपलं तव स्मरणं कृतं मया,
तव समो भवितुमिच्छामि मातुल!
कियान् सुन्दरोऽसि………………।।
**********
भास्कर! भास्कर!
भास्कर! भास्कर!
किमर्थमित्थं तापयति
सर्वदाऽस्मान् भाययति,
चन्द्रं तु किञ्चित् पश्य
सर्वानाह्लादयति पश्य,
भास्कर! भास्कर!
प्रातर्नमस्कुर्मो वयं
तथापि सन्तप्ता वयं,
कथं न विरमसि त्वं
सदैव भ्रमसि त्वं,
भास्कर! भास्कर!
त्वया सह कः क्रीडति तत्र?
तव मित्राणि न सन्ति तत्र?,
किमेकाकी श्रान्तो न भवसि?
विशालगगने खिन्नो न भवसि?,
भास्कर! भास्कर!
प्रसारय हस्तमेकवारं
कुरु मित्रतामेकवारं,
चन्द्रोऽस्माकं मातुलो यथा
त्वमपि तु पितृव्यस्तथा,
भास्कर! भास्कर!
**************
मेघः
सर्वानाह्लादयति मेघः
एतद्दृष्ट्वा हसति मेघः।।
मुक्तहृदयेन नृत्यति गगने
नानाऽऽकारान् धरति गगने
सगर्वं चेष्टते स गगने
विद्युता राजते स गगने।।
सर्वानाह्लादयति……………….
पिपासितकृषकैः लोचितोऽयम्
बहुमनोरथैः लब्धोऽयम्
ग्राम्यगीतेषु गीतोऽयम्
नानाकाव्येषु ख्यातोऽयम्।।
सर्वानाह्लादयति……………
– डाॅ. कौशल तिवारी