जयतु संस्कृतम्
“महती समस्यास्ति”
स्वदेशे भारते निर्वाचनं महती समस्यास्ति ।
समाजे लोकतन्त्रे नेतृणां महती समस्यास्ति।1।
दलानां दुर्गतिं दृष्ट्वा मनो मलिनायते क्वापि।
द्विजिह्वैैर्नाकुलानां संहतिर्महती समस्यास्ति।2।
शृगाल: नायक: श्रुत्वा परं हुहुहायते नित्यम्।
हितं क: कुत्र कामयते नृणां महती समस्यास्ति।3।
पयोदं दर्दुरा: दृष्ट्वा टरा-टर-टर-टरायन्ते।
कथं प्राप्नोमि मतदानं त्वियं महती समस्यास्ति।4।
बका: काका: उलूका: निर्गता: निर्वाचने बन्धो!
प्रजात्या केन क: सार्द्धं कदा महती समस्यास्ति।5।
कुक्कुर: कुक्कुरं दृष्ट्वा यथा गुर्रायते मार्गे।
तथा जल्पन्ति नेतारो मृषा महती समस्यास्ति।6।
अजा: सिंहाश्च सार्द्धं चैकघट्टे प्राप्य सौहार्दम्।
न जाने क: कदा मित्रायते महती समस्यास्ति।7।
– डॉ.राजेन्द्र त्रिपाठी रसराज