जयतु संस्कृतम्
मनोविलास:
लोका नित्यं वदन्त्येव न कुर्वन्ति कदापि ते।
करिष्यन्ति यदा ते$त्र वदिष्यन्ति तदा कथम्।।1
केवलं वदतो नित्यं समस्या प्राणघातिनी।
कुर्वतोर्भयभीता सा समस्या पादसेविका।।2
डुकृञस्य प्रसादेन जीवनं जीवनं भवेत्।
वद्धातो: प्रसादेन सम्बन्ध: स्थिरतां ब्रजेत्।।3
उभयोस्सम्बन्धबन्धेन वासन्तं जीवनं वनम्।
बन्धाभावाद् वने नूनं ग्रीष्म: पावसो$थवा।।4
भाषणेन सदा राजा कार्येणाथ सदा प्रजा।
जीवत्यत्र तयोरैक्यं वन्ध्याजातकगात्रवत्।।5
यस्तदैक्यविलासार्थी सुखं व्याख्याति तत्त्वत:।
तन्मनोमोदनायैव पुष्प्यत्याकाशवल्लरी।।6
– डॉ. निरंजन मिश्र
Facebook Notice for EU!
You need to login to view and post FB Comments!