जयतु संस्कृतम्
यावत्पुत्र! समस्तभारतमही लाक्डाउने वर्तते
तावत् ते गृहमागतेव जननी स्थातुं समीहेsधुना।
स्थानं देहि प्रियारविन्दसुमुखे दास्यामि तुभ्यं वरं
काव्यं तेन महीतले चिरमिदं राजिष्यतेsसंशयम्।1
मात:! किं वदसीव हन्त तनयं मामीदृशं भारति!
पुत्रस्तेsस्मि सदैव तिष्ठ सुरवाङ्नो याहि दूरं गृहात्।
भाग्यान्मत्कवितालये मृदुपदं धत्सेsम्ब सारस्वतं
दिव्यं वाक्! समलङ्कृतं सुमधुरं रस्यं सतामीहितम्।।2
सूनो! हंस इहैव तिष्ठतु गृहे मद्वाहको सुन्दरो
वीणेयं सुखदे सुखेन भवने राराज्यतां कामये।
पौत्रोsयं विभवस्तवायमधुना खेलिष्यति प्रायशः
मूढोsहं मृदुवीणया सुखकरं श्रोष्यामि गानं प्रियम्। 3
काव्यं नव्यमहं विलिख्य शतशस्त्वां श्रावयिष्याम्यहो
प्रातःसायमये सुखाय नितरां मातर्वदाम्यानतः।
अर्चां तेsनुदिनं स्वकाव्यकुसुमैर्धृत्या करिष्येsतुलां
सानन्दं जननीह तिष्ठ सदने यावत्त्वया काम्यते। 4
इत्थं हे कवयो मदीयसुहृदो गेहेsर्चनीया चिराद्
वाणी राजति सेवनेsस्मि निरतस्तस्या अहं सर्वथा।
व्यस्तो नैव लिखामि सम्प्रति यतो वाक्यं च काव्यात्मकं
प्रीता कामदुघा ददाति कवये गौर्वागियं सेविता।5
कोरोनासमये रुद्धा भारती मम पूजिता।
राजते कवयो नित्यमरविन्दानने मुदा।। 6
– डॉ. अरविन्द तिवारी