जयतु संस्कृतम्
प्रियालापाष्टकम्
समर्दे मे क्वचिदयि हृतः सुन्दरो दूरभाषस्
तस्माद्वार्ता नहि भवति हे क्षम्यतां स्वामिकोsयम्।
वार्तं भाषे शृणु सकुशलः काव्ययकर्तारविन्दः
स्वल्पे काले विपदि विकलः कीदृशी वर्तसे त्वम्?१
नो भोज्यं मे मिलति समये नैव पानं न शान्तिर्
यानं रुद्धं कमलनयने नो विमानं लभेsहम्।
हाहाकारो भवति परितः श्रूयते हा विलापः
किं ब्रूयां हे सकलसुखदे त्वां स्मरन् दूरसंस्थः।। २
कोरोनाख्या विचरति भुवि प्रायशो लोकहन्त्री
दैत्यादृश्या बहु वितनुते रोगजालं सुकेशि।
सर्वं देशे गृहिणि पिहितं व्याकुलं मानसं मे
किं हा कुर्यां वद सुवदने दुर्दिने दूरगेहः।। ३
त्वं मां द्रष्टुं भवसि विकला ज्ञायते हृद्विकम्पैः
स्वप्ने स्प्रष्टुं ह्यभिलषसि हे विष्टरे मे नवोढे!
यावत् तावन्निगदति रुषा सर्वकारस्य रक्षी
दूरं दूरं भवतु निकटं नो प्रयाहि प्रिये हा!!४
जानामि त्वां वदसि मधुरं हे विनीते सुनीते
भ्रामं भ्रामं हृदयभवने साम्प्रतं हन्त भीते।
गानं हृद्यं तव कृतमहो जीवयद्वर्तते मां
गीतं प्रेम्णा प्रथममिलने कोकिले हे मनोज्ञे।। ५
दुर्गापाठं कुरु कुरु प्रिये न व्रतं हे कृशांगि
प्रातस्सायं भज हरिहरौ सादरं मां विपन्नम्।
चिन्ता कार्या न हि कथमये मत्कृते प्रार्थयेsहं
सन्तिष्ठन्तेsसुखददिवसाः सर्वदा नो जगत्याम्।। ६
भार्ये गेहे महितजनकः सेवनीयोsतिवृद्धः
माता सेव्या नयनरहिता सर्वथा पूजनीया।
रक्ष्यः यत्नैः चपलचपलो देवरः सावधाने
कोरोनायाः कुपितनयनात् कामये कोमलांगि!! ७
गेहाद्दूरं प्रविश न शुभे श्रूयतां वेदना मे
सेवस्वैवं प्रणयवचनं भाषमाणा दयाद्रे!
मास्कं चास्ये विकटसमये सन्निबध्यैव प्रेम्णा
लक्ष्मि प्रायः सदनललने वर्तितव्यं यथेच्छम्।। ८
– डॉ. अरविन्द तिवारी