जयतु संस्कृतम्
न जाने
त्वां चिन्तयामि कथमद्य विभो न जाने
त्वां पूजयामि कथमद्य विभो न जाने।
चित्तं यदा कलुषितं मदमानदग्धं
गानं तवास्तु कथमद्य विभो न जाने।।1
माता क्वचिद् विलपतीह पिता क्वचिच्च
पुत्रस्त्वदर्चनविधौ स्वमतिं निधत्ते।
पूजास्थले$पि यदि जीवति मानमेव
त्वत्कीर्तनं कथमिहाद्य विभो न जाने।।2
विश्वं निहत्य निजजीवनरक्षणार्थं
विप्रैस्त्वदीयचरणे स्तवनं पठन्ति।
त्वद्वञ्चनेन हसिताधरगह्वरान्तात्
नादो घनस्य कथमद्य विभो न जाने।।3
वन्यान् विसार्य वनवह्निशिखावलीना-
मुल्लासनेन सततं सुखमर्जयन्ति।
तेनार्जितेन हि सुखेन तवार्चनायां
रत्नार्पणं कथमिहाद्य विभो न जाने।।4
गङ्गानिबन्धनविधौ विनियोज्य चित्तं
गङ्गाजलेन कुरुते$द्य शिवाभिषेकम्।
गङ्गाधरस्तवनकर्मरतेर्विलासात्
किं केन कस्य कथमद्य विभो न जाने।5
– डॉ. निरंजन मिश्र