जयतु संस्कृतम्
नौकया
स्वप्नकाले विनीतोsचिरं नौकया।
प्रेमरत्नाकरे वाहितो नौकया। १
नव्यवर्षोत्सवे कृष्यमाणस्तया।
वञ्चितो दूयमानोsस्म्यहं नौकया।। २
एवमासीन्मदीयं मनश्शङ्कितम्।
किन्तु मध्ये जितं रागतो नौकया।। ३
नैतया याहि साकं क्षणं सागरे।
नेष्यसे त्वं विदूरं द्रुतं नौकया।। ४
नैव विश्वास आसीद् भविष्यत्यहो।
प्रेमिणः पातनं सागरे नौकया।। ५
रम्यदृश्यावलीदर्शने ध्यानधृक्।
त्यक्तनिद्रोsभवं धीवरो नौकया।। ६
नक्रमीनादिमध्येsरविन्दोsकविः।
मुह्यमानश्चलत्यद्य गीनौकया।। ७
– डॉ. अरविन्द तिवारी