जयतु संस्कृतम्
नूतनोवर्ष:
समायातोऽद्य वर्षोऽयं , नूतनो जीवने बन्धो!
समेषां मङ्गलं सौख्यं कामये सादरं बन्धो ! 1!
गत: काल: प्रयुक्तो यो मानवैर्लोकलीलायाम्।
पुनरायाति कालोऽयं गृहे जनजीवने बन्धो!2!
कदाचिद् मित्रतां लब्ध्वा मानसे मोदते मित्रम्।
कदाचिद् शत्रुतां दृष्ट्वा विपत्तिर्बाधते बन्धो!3!
गतिर्वानागतिर्लोके सूर्यचन्द्रौ सदा चरत:।
दिवारात्रौ सदा काल: काशते मण्डले बन्धो!4!
विषं त्यक्त्वाऽमृतं पीत्वा देवलोकेऽपि चातङ्क:
सुरा: वा राक्षसा: सर्वे ग्रसन्ते पीडया बन्धो! 5!
ऋतं नैवानृतं न्याये दृश्यते नाद्य संसारे।
जनाधारैर्धनैर्मानं लभन्ते मानवा: बन्धो!6!
यतो यात: तत: प्राप्त: नैव सौख्यं विना कष्टम्।
जनैर्मुख्यार्थलाभार्थं जीवनं धार्यते बन्धो!7!
विरक्ता: साधव: मन्ये मन्दिरे मस्जिदे लुण्ठा:।
मठे देवालये भ्रष्टा: रमन्ते चाधिका: बन्धो!8!
– डॉ.राजेन्द्र त्रिपाठी रसराज