जयतु संस्कृतम्
नवसंवत्सरः
पुण्योऽयं नवप्रभातः|
नवसंवत्सर आयातः||१||
नवरात्रदिनानां महिमा,
सज्जिताःभवानीप्रतिमाः,
विपदःकुरु दूरं मातः!||२||
भक्तास्तव भजने लग्नाः,
सर्वे ध्याने हि निमग्नाः,
चरणयोश्च ते प्रणिपातः||३||
त्वं मातः! प्रेमपयस्या,
कुरुषे सफला हि तपस्याः,
दुष्टेषु भवत्याघातः||४||
दुःखं न भयं तव चरणे,
गृह्णासि निर्बलं शरणे,
स्यामहमपि कृपया स्नातः||५||
कुरु करुणां भारतवर्षे,
शक्तिञ्च देहि संघर्षे,
वर्षतु तव दया-प्रपातः ||६||
– प्रेमशंकर शर्मा