जयतु संस्कृतम्
दूतश्च को भविता
श्रावणस्य प्रथमं दिनं
कालिदासस्य यक्षः
आषाढे तु का कथा
श्रावणेऽपि चातकायते
मेघदर्शनं विना।
कुतो भवेत् सफला याचना ?
अद्य वृथाऽऽस्ते प्रार्थना।
यदा चेतनतोऽपि जातो निराशः
तदा अचेतने भवेत् कथं विश्वासः?
तथा च याचनाऽपि किमर्थम्?
मेघं विना कुत्र विरहव्यथा?
विरहरहिता च कीदृशीयं प्रेमप्रथा?
मेघागमने तु दरस्थ एव न ,
अपितु विह्वलो भवति निकस्थोऽपि।
परं न कुत्रापि मेघदर्शनं
न च प्रियजनस्य दूरस्थता ,
तर्हि कश्चित् कुत्र
प्रेषयेत् सम्प्रति सन्देशं
दूतश्च को भविता?
– प्रो.ताराशंकर शर्मा पाण्डेय