जयतु संस्कृतम्
(1)
सागरं तु कथमपि तीर्णोऽहम्।
तटमागत्य हन्त! मग्नोऽहम्।।
श्रमशोणितसिंचितमहोत्सवे
नास्ति ते कार्यं सूचितोऽहम्।।
अमृतफलमखादित्वापि खलु
नाकादहह! वराकश्च्युतोऽहम्।।
गङ्गाजलं तु तथैव स्थितं
पश्य! पिपासित एव गतोऽहम्।।
चषके यदा न मदिरा तदैव
तव सभायां तिवारी स्मृतोऽहम्।।
*******************
(2)
मयि किमपि मम नास्ति।
मम नामापि मम नास्ति।।
आकाशाय विलपसि
भूरियमपि मम नास्ति।।
परमेशो न तर्हि किं
सैकापि मम नास्ति।।
तस्मै रोदिषि यन्न
हस्तगतमपि मम नास्ति।।
भाविभानुर्भणति मां
रात्रिरपि मम नास्ति।।
– डाॅ. कौशल तिवारी