जयतु संस्कृतम्
स्वरुचिबालको लोकपालको
भविलभालकःकालकालकः।
रुचिरचन्दनो नन्दनन्दनः
शुभति शोभनःकृष्णमोहनः।।1।।
कमलमेदुरो भ्रष्टभेदुरो
विभृतभन्दिलो भूविभूतिदः।
भुवनमोदनः शत्रुरोदनः
शुभति शोभनःकृष्णमोहनः।।2।।
व्रजपुरन्दरः सर्वसुन्दरः
परधुरन्धरो मोदमन्दिरम्।
विमलहृद्धनः शास्त्रदोहनः
शुभति शोभनः कृष्णमोहनः ।।3।।
दहनशोषको दोषकोषको
दनुजरोषकः स्वान्तमोषकः।
परमपावनः सर्वभावनः
शुभति शोभनः कृष्णमोहनः ।।4।।
सुजनजोषकःप्रीतिपोषकः
सरसघोषकःप्राणितोषकः।
ललितलोचनः पापमोचनः
शुभति शोभनः कृष्णमोहनः ।।5।।
भयविभेदनः श्रीनिकेतनः
सकलचेतनाधारचेतनः ।
रुचितचर्चनो रम्यरोचनः
शुभति शोभनः कृष्णमोहनः ।।6।।
लवणलासको लोकभासको
रचितरासको देवदासकः।
सुरभिवर्धनः कंसमर्दनः
शुभति शोभनः कृष्णमोहनः ।।7।।
सुरसपायकोऽभीष्टदायको
भुवननायको दिव्यसायकः।
अतुलनोदनोऽगम्यगोदनः
शुभति शोभनः कृष्णमोहनः ।।8।।
मुदितमानसोऽपूर्वसाहसो
निजयशोविभाभिन्नतामसः।
सुरनरोच्चयेऽबाध्यमाननः
शुभति शोभनः कृष्णमोहनः ।।9।।
स्वजनरञ्जनो दुःखभञ्जनो
मृदुलगुञ्जनो दैत्यगञ्जनः।
कलिनिरोधनः सत्यबोधनः
शुभति शोभनः कृष्णमोहनः ।।10।।
– डॉ. शैलेश कुमार तिवारी