जयतु संस्कृतम्
ग्रामोन्नतौ देशसमुन्नतिः स्यात्
ग्रामेषु लोका बहवो वसन्ति
कृषिप्रधानो ननु देश एषः।
ग्रामोन्नतौ देशसमुन्नतिः स्याद्
ग्रामोन्नतिः स्यान्नवभारतेऽतः।।
शिक्षाव्यवस्था सुदृढानुकूला
भवेत् समार्घा सुलभा जनानाम्।
शिक्षाव्यवस्थासुदृढत्वसत्त्वे
ग्रामोन्नतिः स्यान्नवभारतेऽस्मिन्।।
ग्रामे सदा स्यात् सुलभा चिकित्सा
चिकित्सका योग्यतमा नियोज्याः।
ग्राम्या भवेयुर्यदि रोगहीना
ग्रामोन्नतिः स्यान्नवभारतेऽस्मिन्।।
प्रोत्साहनेनानुपमेन सार्द्धं
संसाधनौघाःकृषकेषु देयाः।
तुष्टेषु सर्वेषु च कर्षकेषु
ग्रामोन्नतिः स्यान्नवभारतेऽस्मिन्। ।
प्रशिक्षणानि प्रचुराणि नाना
देयानि लोकाभ्युदयाय काले।
प्रशिक्षिते ग्राम्यजनेऽत्र नूनं
ग्रामोन्नतिः स्यान्नवभारतेऽस्मिन्।।
****************************
सुरवाचमुपास्स्व सखे सततम्
अदयं हृदयं सदयं कुरुते
रसहीनजनेऽपि रसं तनुते।
रससागरमाप्तुमिहेच्छसि चेत्
सुरवाचमुपास्स्व सखे सततम् ।। 1
परसंस्कृतिरद्य पुरस्क्रियते
निजसंस्कृतिरत्र तिरस्क्रियते।
निजसंस्कृतिरक्षणमिच्छसि चेत्
सुरवाचमुपास्स्व सखे सततम् ।। 2
अनया निखिले धरणीपटले
निजभारतवर्षमगाद् गुरुताम्।
गतगौरवमाप्तुमिहेच्छसि चेत्
सुरवाचमुपास्स्व सखे सततम् ।। 3
– डॉ. शैलेश कुमार तिवारी