कविता
गुरो!तुभ्यं नमो नमः
राष्ट्रं निर्मीयते भव्यं सत्येन शुभशिक्षया,
तयोः प्रदायकत्वेन गुरो!तुभ्यं नमो नमः।
राष्ट्रेति लभते संज्ञां धरा तत्रस्थितैर्जनैः
ज्ञानं मनुष्यता प्राणः तद् दात्रे गुरवे नमः।।
स्वार्जितां ज्ञानसम्पत्तिं दत्ते शिष्याय यो गुरुः
द्विगुणीकृत्य सः पूज्यः सर्वदा सर्वथा गुरुः।।
अज्ञानं दवयन् शश्वत् यच्छन् ज्ञानात्मसम्पदम्,
गुरुः मान्यश्च पूज्यश्च शिष्यैः सर्वात्मना सदा।।
गुरुप्रवराय महासत्त्वाय ज्ञानदाने रताय वै
तमोपसारणार्थं त्वा कार्तज्ञ्यं प्रकटाम्यहम्।।
माता शरीरं रचयति आत्मानं धत्ते गुरुः
प्रणतीनां शतं तस्मै गुरवे ज्ञानशरीरिणे।।
शिष्यस्य रिक्तहस्तस्य विनीतेयं प्रार्थना गुरो!
इष्टावाप्तिमुदोभूमिं नय मा शिवयाsशिषा।।
– डॉ. आभा झा