जयतु संस्कृतम्
गीतम् – मन्दं-मन्दम्
हृदि भाति सा मे मन्दं-मन्दम् |
हृदि आगता सा मे मन्दं-मन्दम् ||
तस्या: सस्मितं कथं व्यक्तं करोमि |
चोरयित्वा गता हृदयं मे मन्दं-मन्दम् ||
प्रसन्नचेतसा चलन्ति सस्मिता मन्दं-मन्दम् |
उन्मत्तं कृतवती मां सा मन्दं मन्दम् ||
तस्या: केशपाशो,हृदयं मे भाति |
निश्चेष्टं करोति मां सा मन्दं-मन्दम् ||
‘अरुण! हृदयं भाव कथं व्यक्तं करोमि |
रतिं जनयति मयि सा मन्दं-मन्दम् ||
– डॉ. अरुण कुमार निषाद