जयतु संस्कृतम्
गीतम्
भास्कर-तापं मृदु -मृदु तापं
विलसति शिशिरागमने।
वृद्धानार्या: वृद्धजनाश्च
तिष्ठन्ति मृदु घर्मे।।
डाययन्ति बालका: छदोपरि
चित्र-विचित्र-पतंगम्।
कर्तन कृत्वा मिथ: पतंगं
सर्वे मनसि उमंगम्।।
श्वेतधूम्र इव शीतकुहासा
प्रसरति प्रात: गगनं
दृष्ट्वा मनसि प्रतीति भवत्यम्
क्षीर-सागरं दृश्यम्।।
सरि-सरसी जल शीतप्रकामं
कूपजलं अल्पोष्णम्।
‘शी’ ‘शी’ कृत्वा गच्छति शीतं
दुष्कर भवति स्नानम्।।
भवत्यंकुरण गोधूमानां
मुकुलित चणककलाय:।
सर्सप तीव्रं धावति गगनम्।
आढ़की सघन वितानम्।।
चित्ताकर्षक आम्रलबागं
ईक्षु-रसानां पानम्।
त्रिदोषनाशक: आमलकमपि
शीत -ऋतौ हि प्राप्तम्।।
*******************
रिक्तेsपि श्री
(इन्द्रवज्रा वृत्तम् )
पीतानि पत्राणि पतन्ति शीते
शाखाप्रशाखा रहिता च पत्रै:।
शाखा-गवाक्षै: भगवान सूर्य:
पश्यन्ति लोकं गगने दिनान्ते।।
रक्ता प्रतीची रविरक्तवर्ण:
चापाकृति: यन्ति खगाश्च नीडं।
अध: पृथिव्यां तरवो हि रिक्ता:
रिक्तापपन्ने तु विलक्षणो श्री।।
– मोती प्रसाद साहू