आलेख:
शिक्षकदिवसविशेषः
को गुरुः किमस्ति कर्तव्यं तस्य
आसन्नः शिक्षकदिवसः। दिनेsस्मिन् शिक्षकान् प्रति समाजस्य छात्राणां वा ह्रिदि ह्रासोन्मुखं सम्मानभावं अस्मान् चिन्तयितुं विवशीकरोति-किं कारणम् अस्य? सममेव प्राचीनकालिकायाः शिक्षणपरम्परायाः अद्यतन्याः च शिक्षाव्यवस्थायाःतुलना अपि मनसि स्वाभाविकतयैव भवत्येव।”गुरुवचनेषु विश्वासः श्रद्धा” “आज्ञा गुरूणामविचारणीया” “श्रद्धावान् लभते ज्ञानम्” “गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः” इत्यादीनि वचांसि तदानीन्तनं पूतमधुरं गुरुशिष्यसंबंधं स्मारयन्ति। परमिदमपि ध्यातव्यं यत् पुरा शिक्षणं ज्ञानदानं बभूव। दानं च प्रतिदानं नापेक्षते। विधिपूर्वकं कृतमध्ययनं,व्रतादिसम्यगनुष्ठानं,नित्यविधेया गुरुशुश्रूषा च सत्त्वप्रधानानां गुरूणां दृशि सर्वोत्तमा गुरुदक्षिणा भवतिस्म।
आचार्याःशिष्येभ्यः इदमपि अपेक्षन्तेस्म यत् ते प्राप्तज्ञानं समाजे वितरन्तु। निःशुल्कं शिक्षादानस्य कर्तव्यतादृष्टिः एकतो गुणप्रतिभानुसारिणे विकासाय कल्पतेस्म अपरतश्च गुरुवर्गे गुणाय स्नेहानुरागं प्रबोधयतिस्म।तदानीं तपस्त्यागमयजीवनानां गुरूणां गुरुकुलस्य च जीवनसाधनव्यवस्था राजा करोतिस्म येन आचार्याःजीवनसाधनार्जनचिन्तामुक्ताः भूत्वा आत्मनः विशुद्धायां कृत्यवेद्यां समर्पयन्तिस्म। एषा शिक्षाव्यवस्था आंग्लशासनेन प्रवर्तितायाः शिक्षापरम्परायाः सर्वथैव भिन्ना बभूव। आंग्लशासनेन चालिता शिक्षाप्रणाली एव अद्यापि प्रचलति यस्यां त्यागसमर्पणादि मानवीयगुणानां विकासः ईप्सितः एव नास्ति, अभीप्सितः अस्ति पुस्तकीयज्ञानस्य रटनम्,परीक्षारूपिवैतरिण्याः पारेगमनम् ,जीविकोपार्जनस्य अवसरान्वेषणम्। अस्यां प्रणाल्यां विनिमयप्रणाली स्वीकृताsस्ति -शिक्षा गृहीतव्यास्ति चेत् शुल्कम् अवश्यदेयम्। सर्वकारीयशिक्षणसंस्थासु शिक्षकेभ्यः सर्वकारः वर्तनरूपेण शुल्कं ददाति,वैयक्तिक प्रतिष्ठानेषु च छात्रैः प्रत्यक्षतया शुल्कं प्रदीयते। अतः गुरुच्छात्रयोः मध्ये तादृशः कोsपि भावात्मकःसंबंधः विकसितः एव न भवति,केवलं भवति वणिग् ग्राहकसंबंधः। अत एव अस्यां रजस्तमसोःमुक्तं प्रोत्साहनं भवति,सत्त्वस्य विकासः तु काम्यभूमेः सर्वथा निस्सारितो भवति। “सा विद्या या विमुक्तये” इत्यस्य स्थाने “सा विद्या याsर्थलब्धये” इति परिभाषा संजाताsस्ति अधुना। शिक्षकाः येनकेनापिप्रकारेण छात्रान् परीक्षाम् उत्तीर्तुं क्षमान् कुर्वन्ति, तेषां सर्वांगीणः विकासः कथं भवतु,तेषां अन्तर्निहिता क्षमता कथं बहिरायातु, कथं वा ते चरित्रवन्तः नागरिकाः भवन्तु इत्यर्थं कोsपि प्रयासः न विधीयते शिक्षकैः।
अतः अद्य आरुणि कौत्स कृष्ण सुदामा अर्जुन एकलव्यगालवसदृशाः शिष्याः न भवन्ति न वा वरतन्तु सन्दीपनसदृशाः गुरवः। अधुनातने काले शिष्यैः शिक्षकः ताडितः,हतः,अपमानितः इत्यादयः समाचाराः प्रमुखतां भजन्ते। तद् आगच्छन्तु,अस्मिन् शिक्षकदिवसे छात्राः किं कुर्वन्ति, किं वा कुर्वन्तु इति चिन्तनं परिहाय वयम् शिक्षकम्मन्याः किं कुर्मःकिं वा कुर्याम इति चिन्तयामः”,को गुरुः? -अधिगततत्त्वः शिषयहितायोद्यतः सततमिति” कथनं सार्थकीकुर्मः। अद्य सत्यनारायणकथायाः श्लोकमिमं स्मृतिपथे आनयनस्य आवश्यकता अस्ति-
ज्ञानं सम्प्राप्य संसारे यः परेभ्यो न यच्छति
ज्ञानरूपी हरिस्तस्मै प्रसन्न इव नेक्षते।।
– डॉ. आभा झा