जयतु संस्कृतम्
कोरोना व्यापारः
कोरोना व्यवसायोऽस्ति राष्ट्रे वृद्धिंगतो महान् ।
अर्थतन्त्र पुनर्जातं जीवित मूर्च्छितं पुरा ।।
वृद्धिं कृताऽस्ति शुल्कानां नापितैः क्षौरकर्मणः ।
परीक्षणस्य मूल्यानां वृद्धिं कृता चिकित्सकैः ।।
द्विगुणितेन मूल्येन विक्रीतं वणिजैस्तदा ।
पिहितां विपणीं दृष्ट्वा पृष्ठद्वारै श्च लीलया ।।
महार्हा आपणा जाता कर्तुं सौन्दर्यवर्धनम् ।
शाकानां मूल्यवृद्धया हा ! स्थापिता विक्रमा नवाः ।।
प्रेट्रोलमूल्यवृद्धञ्च कृत्वा दिने दिने पुनः ।
सर्वकारोऽपि पृष्ठे किं भवति धनलुण्ठने ।।
प्रधानमन्त्रिणः कोशो लेखाहीनोऽपि वर्धते ।
कोशवृद्धिस्तथा जाता राज्यानां मुख्यमन्त्रिणाम् ।।
जनता तु विना द्रव्यं वचनैरुपशाम्यते ।।
उत्पादनञ्च कुर्वन्ति यन्त्रालया दिवानिशमा ।।
औषधानां पुनर्लभं लभन्ते ते चतुर्गुणम् ।।
मुखप्रक्षालनार्थं विक्रमी द्रव्यविक्रयः ।
औषधानां विदेशेषु नियतिश्चुम्बति नभः ।।
सुवर्णं नास्ति क्रेतव्यं द्रष्टव्यं दूरतः प्रिये ।
सुवर्णादपि सर्वेऽत्र स्वर्णकाराश्वकासते ।।
अन्तर्जालेन छात्रास्तु पठन्ति हतभाग्यकाः ।
किन्तु विद्यालया जातास्तेषां शुल्कैर्वृकोदराः ।।
रोगरक्षकवस्तूनां विक्रयेण धनाढ्यताम् ।
चीनदेशोऽपि यातोऽस्ति रोगनिर्यात- पारगः ।।
रुग्णालयास्तु निष्णाता नगरे पञ्चतारकाः ।
ऊर्णविद् धनि- मेषाणां छिदन्ति धनसम्पदः ।।
पार्थ मा त्वं गमः क्लैब्यं कोरोनायाः प्रभावतः ।
व्यापारो यत्र सर्वत्र मनुष्याणां स्वभावतः ।।
– हर्षदेव माधव