जयतु संस्कृतम्
कोरोनासंक्रमणम्
कोरोनाया: संक्रमणं निखिललोके समाक्रामति।
महारोगो न जाने कस्य बन्धोः जीवनं दुष्यति।1।
विदेशे व्याधिग्रस्ता ये स्वदेशं प्रति समायान्ति।
महामारीं श्रुत्वा चिन्तिता: हा जीवनं नश्यति।2।
विषाणु: चीनदेशाद् प्रसृत: सर्वत्र व्याप्तोsयम्।
निरुपायो दुरासाध्यो जगति जनजीवनं त्रस्यति।
निरस्ता रेलयात्राया: टिकट-चारक्षणं गोष्ठी।
गृहे मार्गे च वायुयाने विधेरनुपालनं रक्षति।4।
स्वदेशे घोषित: कर्फ्यू स्वजनताया: रक्षार्थम्।
असाध्यस्यौपचारार्थं कुशलमनुशासनं वाञ्छति।5।
पिशाचो नास्तिक: देश: मनुजमृत्युं वृथा वहते।
विनाशं वैश्विकं दृष्ट्वा सुखदशक्त्या खलो दृप्यति।6।
वैश्विकीमापदं हन्तुं वयं सर्वेऽपि संलग्ना:।
महाकाल: शिव: शम्भु: समस्तं दुष्कृतं कृन्तति।7।
******************
वैश्वकचिन्तनम्
वैश्विकं स्वास्थ्यसंवर्धनं कामये।
शान्तिसद्भावसौख्यं सदा कामये।1।
हिंसकै: कुत्सितै: दुर्जनै: दुष्कृतम्।
हन्त हर्तुं सदा मङ्गलं कामये।2।
स्वार्थसिद्धिं परित्यज्य लोके जनै:।
पीडितानां हितार्थं शुभं कामये।3।
संस्कृते: रक्षणार्थं जनैस्सन्ततम्।
लोकसेवाव्रतं सर्वदा कामये।4।
विश्वबन्धुत्वभावं समासाद्य वै।
राष्ट्रभक्तिं जनानामहं कामये।5।
वर्णधर्माश्रमा जीवनस्याश्रया:।
सन्तु, सत्यं शिवं सुन्दरं कामये।6।
दैवजामापदं विश्वव्याप्तव्यथाम्।
कोरनां नाशितुं साम्प्रतं कामये।7।
– डॉ.राजेन्द्र त्रिपाठी रसराज