जयतु संस्कृतम्
कुर्मस्त्वदीयं स्वागतम्
हर्तुं प्रवृत्ताब्दस्य नो दुःखं विदेशसमागतम्
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥१
दैन्यं पलायनकं नृणां हृत्वाऽथ दातुं सम्पदम्
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥२
दुर्दान्तदृश्यधराऽद्य याऽस्वस्था पुनस्तत्स्वस्तये
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥३
सेवाविहीनान् वृत्तिकान् कर्तुं पुना राष्ट्रोन्नतिम्
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥४
पादव्रणेभ्यः पीडिता ये मानवास्तच्छान्तये
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥५
विश्वं करोनासङ्कटात् सद्यो रसायनतोऽवितुम्
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥६
भूयो विधातुं मानवे विश्वासकुम्भमहोत्सवम्
आयाहि नूतनवर्ष! भोः कुर्मस्त्वदीयं स्वागतम्॥७
– डॉ. राजकुमार मिश्र