जयतु संस्कृतम्
कविना विना?
विधिना विना नवसर्जनं भववैभवं निधिना विना
शशिना विना विरहव्यथां दृढतापनं रविणा विना।
फणिना विना हरिसंस्तवं सुखवर्षणं हरिणा विना
मुनिना विनोच्चवचांसि वा रचयेन्नु कः कविना विना।।1।।
क्व महीयसां महनीयता क्व च कामिनीकमनीयता
क्व सुधांशुशीतलकौमुदी प्रकृतेः क्व सा रमणीयता।
क्व च केकिकोकिलकेलयः क्व चकोरचातकचारुता
वसुधासुधा भगवत्कथा क्व सुभाषितं कविना विना।।2।।
नगरेऽथवा गहने वने ,सदने बहिः सधनेऽधने
सफलेऽफले सबलेऽबले विमते मते च जने जने।
नवमोदपादप एधतां, समदृष्टिभावनयानया
तनुते सदा ननु को मुदा रसवर्षणं कविना विना ।।3।।
निजजन्मभूपरिरक्षणाय सुरक्षणाय च संस्कृते-
ररिमर्दनाय वितर्दनाय च दुष्टदुर्जनसन्ततेः।
निजराष्ट्रभक्तिविवर्धनाय धनाय सद्गुणरूपिणे
ह्यधिसैनिकादि क ऊर्जनं भरतेऽधुना कविना विना ।।4।।
अधिकारिणो व्यभिचारिणोऽत्र भवन्ति चेज्जनशोषकाः
चितशासका मशका इवेह यदा च शोणितचोषकाः।
इतरेऽपि चेन्निजकर्मतो विमुखाः समाजविनाशका ,
ननु कस्तदा नवलां दिशं परिदर्शयेत् कविना विना ।।5।।
गुणदोषकोषनिदर्शनं भुवि नूत्नतापरिदर्शनम्
अतिगूढतत्त्वविभासनं रसया गिरा जनशिक्षणम्।
सदसद्विवेचनपूर्वकोत्तमवस्तुवास्तवभासनं
रसिकादिमानसशासनं कुरुतेऽत्र कः कविना विना ।।6।।
दृढभक्तिमद्भुतशक्तिमद्वयसाहसं नवतोषणं
नयनिश्चयं प्रथिताभयं परमार्थमार्गसुपोषणम्।
तिमिरावृते पथि जीवनस्य,नवां विभां नवचेतनां
जयभावनादिविभावनं तनुतेऽत्र कः कविना विना ।।7।।
ननु यद्यपीह भवन्ति केचन लोलुपाः कवयोऽधुना
पिशुनाग्रगाःकुटिलाः खलाःपरकाव्यकाननतस्कराः।
निजकार्यसाधनतत्परा, न तथापि सर्व इहेदृशा
वरवस्तुरूपनिरूपणं कुरुते नु कः कविना विना।।8।।
– डॉ. शैलेश कुमार तिवारी