जयतु संस्कृतम्
कविता
सहायाः सहन्ते
पदैः वा मदैः किं भवेत् तादृशानां
क्वचित्स्थाः स्वगीतैर्मनो ये हरन्ते ।।1।।
जलध्वंसने नात्मदोषस्तथापि
नदीनां हि मीना न दीनाः स्मयन्ते ।।2।।
वयं ते न विप्राः परैस्तन्त्रिता भोः !
जगन्नाथमार्गं विना ये रमन्ते ।।3।।
अलं रोदनैः प्राप्य नासासुवर्णं
न किं बालिकास्तास्तृणैः प्रोल्लसन्ते ।।4।।
भवेत् कोऽप्ययं जीवनेऽजातशत्रुः
शवं यस्य सर्वे श्मशानं नयन्ते ।।5।।
न तासां प्रचारोऽद्य दीनोटजानां
चतुर्थीव्रतं प्रत्यहं या यजन्ते ।।6।।
पुनः स्यान्न शाकुन्तलोदन्तदंशः
न किं किं मृगास्ते1 सहायाः सहन्ते ।।7।।
प्रशक्तं पदं द्रष्टुकामाः स्वकाव्ये
कथं नैव सद्यो भवन्तो यतन्ते ।।8।।
अयाच्ञ्यं जलं देहि तच्चातकेभ्यः
घन ! त्वामनन्याऽऽस्थया ये भजन्ते ।।9।।
सकृद् ब्रूहि साफल्यमासादयेयुः
बुधा येऽद्य मत्काव्यधारां प्लवन्ते ।।10।।
विचित्रं च हित्वा तथा मध्यमं स्वं
कुमारा2ख्यमार्गं गुणज्ञाः श्रयन्ते ।।11।।
– डॉ. राजकुमार मिश्र