जयतु संस्कृतम्
कविता
कया बोध्याः
पुरोत्पत्तौ कुलं मे किं ? सुतः ? कस्याऽहमासं कः ?
इमे प्रश्नायिता भावाः क्षितौ शक्त्या कया बोध्याः ।।1।।
ध्रुवं ताश्शक्तयस्तिस्रो विना शब्देङ्गितं व्यर्थाः
प्रियामौनव्रतोत्पन्ना अनन्तार्थाः कया बोध्याः ।।2।।
चलन् हा योऽभवत् श्रान्तः प्रियार्थं प्रस्थितो मार्गे
भवेत् पत्युर्दशा क्लिष्टाऽथवा पत्न्याः कया बोध्या ।।3।।
प्रिये ! ते जीवितं यावद् वहेन्मे जीवनस्रोतः
वियोगे भाविसन्त्रासा यमक्रान्ताः कया बोध्याः ।।4।।
न लक्ष्यन्ते स्मितेऽद्यत्वे जनानां वास्तवा भावाः
समुत्कर्षाः सुखानां तेऽपकर्षा वा कया बोध्याः ।।5।।
अनङ्गेनाऽद्य चाऽसह्यं शरव्यं प्रापितोऽकस्मात्
न चेद् बोध्या मनस्तापास्त्वया मे, ते कया बोध्याः ।।6।।
कुमारं मानसे स्वं स्वं प्रसन्नाः सन्ति कृत्वा ताः
कुमारा मे मनोभावाः कदाचित् स्युः कया बोध्याः ।।7।।
************************************
कोऽहम्
त्वदुन्मादिनोऽङ्गस्य गन्धव्रतोऽहम्
न वध्याऽसि मे त्वं न ते व्याधकोऽहम् ।।1।।
न मन्दोऽस्मि बन्धो ! कथञ्चिद् गुणेभ्यः
समर्च्यो भवेयं न तत्प्रस्तरोऽहम् ।।2।।
स नास्ति प्रिये ! मादृशो विद्धि पथ्यम्
सहेत प्रहारं खरं यो न सोऽहम् ।।3।।
सकृन्मेऽन्तरालं निपीयाऽद्य गच्छेः
ध्रुवं ज्ञास्यसे ते कृते चण्डि ! कोऽहम् ।।4।।
सखेऽन्वेषणे मे वृथा ते प्रयासः
बहिर्नास्मि किं वान्तरे न स्थितोऽहम् ।।5।।
उदात्तोऽस्मि बन्धो ! मे भावोऽप्युदात्तः
हृदावर्जकः सर्जकः काशिकोऽहम् ।।6।।
मनःकन्दुकं खेलतो मेऽपतद् यत्
प्रदेहि नु तत् शारदे ! ते सुतोऽहम् ।।7।।
हरिर्वामनीभूय गोत्रां ललङ्घे
कुमारो नभश्चुम्बने तत्परोऽहम् ।।8।।
– डॉ. राजकुमार मिश्र