जयतु संस्कृतम्
कविता
त्वदीयं दर्शनं लब्ध्वा
त्वदीयं दर्शनं लब्ध्वा मनो मे मोदते नित्यम्।
समक्षे वारणं दृष्ट्वा वियोगो बाधते नित्यम्।।1।
शशी तारा: निशा दीपा रमन्ते खे सदा रात्रौ।
प्रभाते रागिणी शोभा निवासे राजते नित्यम्।2।
दिनेशो बोधनं कृत्वा समायात: पुरो द्वारे।
प्रयाता यामिनी निद्रा मनो मे क्षोभते नित्यम्।3।
कदाचिद् गुञ्जनं श्रुत्वा कदाचिद् गर्जनं कृत्वा ।
कपाटं वीक्ष्य सामोदं शरीरं गाहते नित्यम्।4।
क्वचिच्चोन्मोचनं कृत्वा क्वचिच्चाच्छादनं धृत्वा ।
अनेकै रूपर्सौन्दर्यैस्तया ह्यनुरज्यते नित्यम्।5।
कराग्रे स्थापिता रेखा प्रकृत्या वक्रतां लब्ध्वा।
ग्रहाणां दुष्प्रभावैर्वै गृहस्थ:पीड्यते नित्यम्।6।
वियोगे वाऽत्र संयोगे रसं प्राप्नोति रसराज:।
जनानां जीवनं लोके विपत्या क्लिश्यते नित्यम्।।
– डॉ.राजेन्द्र त्रिपाठी रसराज